________________
आह्निकम् १] अर्थापत्तिस्थले ब्याप्तयुपपादनम्
119 अपि च बहिर्भावस्य गृहाभावं विनाऽनुपपत्तिरित्युक्ते तस्मिन् सति तस्योपपत्तिर्वक्तव्या। सा च का? किमुत्पत्तिः? झप्तिर्वा ?
यदि शप्तिः, सा चानुमानेऽपि। 'गम्यं गमकं विना' नास्ति, तस्मिन् सत्यस्तीति समानः पन्थाः॥ .
उत्पत्तिस्तु गृहाभावात् बहिर्भावस्य 'दुर्भणा। प्राक्सिद्ध हि गृहाभावे तदुत्पादः क्षणान्तरे ॥ १३६ ॥ कारणं पूर्वसिद्धं हि कार्योत्पादाय कल्पते ।
तेनेकत्र क्षणे जीवन् न गृहे न बहिर्भवेत् ॥ १३७ ॥ तस्माद्यत्किञ्चिदेतत् ॥
[अर्थापत्तौ हेतो: कारकत्वमपीति पक्षान्तरनिराकरणम् ] एवञ्च यदेके शप्त्युत्पत्तिकृतमिह वैलक्षण्यमुत्प्रेक्षितवन्तःधूमेनाग्निर्गम्यत एव, गृहाभावेन बहिर्भावो जन्यतेऽपीति-तदपि प्रत्युक्तं भवति ।
[अर्थापत्तिस्थले व्याप्त्युपरादनम् ] यसु सम्बन्धग्रहणाभावादित्युक्तं तदपि न सुन्दरम्मन्दिरद्वार वर्तिनस्तदुत्पत्तेः ।।
'यत: सा कल्पना प्रमेयद्वारिका' इत्यंशं दूषयति-अपि चेति । सा च-उपपत्तिश्च ॥
सम्मतमर्थ दूषयति-उत्पत्तिरिति। कारकहेतुहेतुमद्भावस्थले हि पूर्वक्षणे कारणम्, अनन्तरक्षण एव च कार्यमिति संप्रतिपन्नम्। प्रकृते तु एकस्मिमेव काले गृहावच्छेदेन अभावः, बहिरवच्छेदेन भाव इति भावाभावयोः न कालभेदः । अतः एकस्मिन्नेव क्षगे अनयो: न उत्पाद्योत्पादकभावसंभव इत्यर्थः। तेनेति । गृहेऽभावस्य पूर्वसिद्धत्वाभावात् तेन बहिर्भावः नोस्येतेति ॥ ____शप्तीति । ज्ञप्त्युत्पत्तिभ्यां कृतमित्यर्थः। प्राभाकरैः सम्मुग्धतया उक्तार्थस्यैव स्वेन विकल्प्य दूषणात् अस्य रक्षस्य स्वत एव निरास इति भावः ।। ___ उक्तमिति । पूर्व ९९ पुटे द्रष्टव्यम् ! तदुत्पत्तेः -सम्बन्धग्रहणोस्पत्तेः॥
। गम्यस्य गमकं-क. दुर्वला-क. राशुद्धं द्वारा-ख. .