________________
.
माक्षपः]
118 अर्थापत्तिप्रकरणम्
न्यायमजरी - भाष्यापप्येवं योजयन्ति–दृष्टः श्रुतो वार्थः अर्थकल्पना; अर्थान्तरं 'कल्प'यतीत्यर्थः। यतः सा कल्पना प्रमेयद्वारिकाऽन्यथा
पपद्यत इत्यर्थः। एवं गम्यगमकयोरनुपपद्यमानत्वविपर्ययात् भुमानात् प्रमाणान्तरमियमर्थापत्तिरिति बहिर्भावोऽन्यथानोपपद्यते', स च गम्य इति ॥
[प्रभाकरपक्षप्रतिक्षेप:] एतदपि ग्रन्थवेषम्योपपादनमात्र, न तु नूतनविशेषोत्प्रेक्षणम गम्ये तावदगृहीते सति तद्तमनुपपद्यमानत्वं कथमवधार्यत? गृहीते तु गम्ये किं तद्तानुपपद्यमानत्वग्रहणेन ? साध्यस्य सिद्धत्वात॥
पुरा तद्तमन्यथाऽनुपपद्यमानत्वं गृहीतमासीदिति चेत् - अहो ! महाननमानाविशेषः। इदं हि पूर्व प्रतिबन्धग्रहणमुक्त स्यात् ॥ अयोगोलके व्यभिचारात् प्रकृते तु जीवतो गृहेऽभावः न केवलं गमकं, अपि तु एतदधीन एव बहिर्भाव इति अनुमानाद्विशेषः ॥
योजयन्तीति । तथा च बृहती -" ननु च दृष्टः श्रुतो वाऽर्थोऽन्यथा नोपपद्यते इति गमकस्यान्यथाऽनुपपद्यमानतां दर्शयति । अग्रन्थज्ञो देवानां प्रियः । दृष्ट श्रुतो वाऽर्थोऽर्थकल्पना । किमिदमर्थकल्पनेति ? दृष्टः श्रुतो वाऽर्थोऽर्थान्तरस्य प्रमाणमित्यर्थः। अन्यथा नोपपद्यत इति केन सम्बध्यते ? प्रमित्येति वदामः; अन्यथाऽनुपपद्यमानत्वमापादयन् अर्थान्तरं गमयति " इति। अत्र नन्वित्यादिराक्षेपः, . भग्रन्थज्ञ इत्यादिः समाधान म्। कलानाशब्दोऽत्र प्रमितिपरः' इति ऋजुविमलायां शालिकनाथः । कल्पना- कल्पकः ; प्रमितिरेव हि कल्पनापदार्थः। प्रमेयद्वारिका--- जीवतो गृहेऽभावाधीना ।।
एतदपीत्यादि । बहिर्भाव: जीवतो गृहेऽभावं विना नोपपद्यते इति कथने हि बहिर्भावज्ञानमप्यावश्यकमेव प्रथमम्, धर्मिण एवाज्ञाने तत्रानुपपद्यमानस्वरूपधर्मग्रहणासंभवात्। पूर्व तद्हणे तु अन्तत: व्याप्तिग्रहण एव पर्यवस्यतीति नास्त्यनुमानाद्विशेष इत्यर्थः ॥
जन-क.
नोपमबते कक्प्यमानाऽर्थोऽन्यथा नोपाचते-ख.