________________
प्राभाकरमतम्
माहिकम् १]
117 अर्थापत्तावपि च तुल्य पवायं दोषः, तत्राप्यर्थात् अर्थान्तरकल्पनाऽभ्युपगमात्। 'दृष्टः श्रुतो पाऽर्थोऽन्यथा नोपपद्यते इत्यर्थकल्पना' (शा. भा. १-१-५) (शा. दी. १-१-५) इत्येवं' ग्रन्थोपनिबन्धात् । तस्य तस्मात् प्रतीतिरिति यत्र व्यवहारः, तत्रा'वश्यं तत्प्रतीतौ तदनुप्रवेशो दोष एव । स्वभावहेताविव तद्बुद्धिसिद्धघा तत्सिद्धः प्रमाणान्तरवैफल्यादिति ।।
- [प्रभाकरोक्त: अर्थापत्तरतिरिक्तत्वसाधनप्रकारः]
प्रभाकरास्तु प्रकारान्तरेणानुमानाद्भेदमत्राचक्षते। अनुमाने गमकविशेषणमन्यथाऽनुपप'नम', अनलं विना धूमो हि नोपपद्यते; इह तु विपर्ययः, गम्यो गमफेन विना नोपपद्यते। गम्यः--. बहिर्भावः, स जीवतो गृहाभावं विना नोपपद्यते, गृहानिर्गतो जीवन् बहिर्भवतीति ॥
जीवतो गृहाभावप्रतीतिरेव बहिर्भावमनीतिः स्यात्, तर्हि व्यथैवार्थापत्तिः जीवनस्य शास्त्रण गृहाभावस्यानुपलब्ध्या च ग्रहणात्, तदतिरिक्तस्य च प्राशस्य ममेयस्यानङ्गीकारात् इत्यर्थः ॥
ननु वहिधूमौ विलक्षणौ स्वतन्त्रौ पदाथौं, प्रकृते तु धम्यक्यमेवेत्यस्ति विशेष इति चेत् तत्राह-अर्थापत्तावपीति। अयं-प्रमेयानुमवेशः । अर्थादित्यादि। यदि चोभयोरभेदः तदा स्ववचनविरोध: अर्थादर्थान्तरकल्पनेति लक्षणकथनात् । अतश्वोभगोरान्तरस्वापलपनेऽपसिद्धान्त एवेति । दोष एवेति। तस्मात् यस्य प्रतातिः, तत् कारणभूतं तदेव कथं स्यादित्याशयः। स्वभावहेताविवेति। इदमुत्तरत्र व्यक्तीभविष्यति। तद्द्धीति । हेतुज्ञाने जाते तदेव यदि साध्यज्ञानरू स्यात् तदा साध्यस्य हेतुज्ञानकाल एव सिद्धत्वात् कुत: प्रमाणान्तरगवेषणमित्यर्थः ॥
गमकविशेषण-गमकं-ज्ञापकं तद्रूपं विशेषण-धर्मः हेतुः-ज्ञापको हेतुरिति यावत् । अन्यथा-साध्यं विना! गृहाभाव मिति । गमकमिति शेषः । नोपपद्यत इति । धूमः खलु गमकमात्रं, न तु धूमाधीनो वहिः,
तत्र-ख.. 'वाच्य-ख.
प्रत्वम्-ख. . गृहा-क.