________________
116 अर्थापत्तिप्रकरणम्
न्यायमचरी जीवन विशिष्टस्त्वसौ गृह्यमाणो लिङ्गतामश्नुते, व्यभिचारनिरासात्। न च विशेषणग्रहणमेव प्रमेयग्रहणम्। जीवनमन्यत् , अन्यञ्च बहिर्भावाख्यं प्रमेयम् ॥
[जीवनमन्यत्, अन्यश्च बहिर्भाव:] ननु जीवनविशिष्टगृहाभावप्रतीतिरेव बहिर्भावप्रतीतिः। नैतदेवम् - जीवनविशिष्टगृहाभावप्रतीतेः बहिर्भावस्य प्रतीतिः', न तत्प्रतीतिरेव बहिर्भावप्रतीतिः । न हि दहनाधिकरणे धूमप्रतीतिरेव दहनप्रतीतिः ॥
'ननु' धूमादन्य एव दहनः । इहापि गृहाभावजीवनाभ्यामन्य एव बहिर्भावः॥ ___पर्वतहुतवहयोः सिद्धत्वात् मत्त्वर्थमात्रं तत्रापूर्वमनुमेयम : एव महापि बहिर्देशयोगमात्रमपूर्वमनु'मेयम् ॥
यदि तु तदधिकं प्रमेय मिह नेष्यते, तदा गृहाभावजीवनयोः स्वप्रमाणाभ्यामवधारणादानर्थक्यमर्थापत्तः। तस्मात् प्रमेयान्तरसद्भावात तस्य च तदानीमननुप्रवेशात् न प्रमेयानुप्रवेशो दोषः॥ गृहेऽभावपरिच्छेदे न कश्चन विशेषोऽस्तीति । गृहे अभावग्राहकेण नैतेषां ग्रहणसंभवः, प्रमाणान्तरावसेयानि तानीति भावः ।।
प्रमेयाननुमवेशमेव स्पष्टयति-जीवनेति ॥
नन्विति। तथा च जीवनविशिष्टगृहाभावबहिर्भावयोर विशेषात् जीवनग्रहणकाले बहिर्भावस्यापि ग्रहणात् प्रमेयानुपवेशो दुर्वार इति भावः : उभयमपि नैकं, किन्तु ज्ञाप्यज्ञापकभावापने ते इत्याह जीवनेति ॥
__ ननु वह्निधूमयोः भेदसत्त्वात् धूममतीतिरेव न दहनप्रतीतिरूपा। प्रकृते तु जीवनविशिष्टगृहाभाव बहिर्भावयोर्न विशेषोऽस्तीति शक्कते --- नन्विति। ममाधत्ते-इहापीति ॥
पुनः शङ्कते-पर्वतेति। समाधत्ते-एवमिहापीति ॥ उभयोरभेदे अर्थापत्तिरपि निरर्थिकेत्याह-यदि ‘त्विति । यदि
1व: प्रतीत:-ख.
किन्तु-ख.
'मानम्-क.