________________
आह्निकम् १] अर्थापत्तेरनुमानेऽन्तर्भावः
115 तद्वान् इति 'साध्यो धर्मः'; जीवन्मनुष्यगृहाभावत्वात्, पूर्वोपलब्धवं विधगृहाभाववत् । यथा धूमो धर्मी, वह्निमानिति साध्यो धर्मः ; धूमत्वात् , पूर्वोपलब्धधूमवदिति ॥ अतश्च गृहादीनां लिङ्गत्वाशङ्कनं, अपाकरणं च आडम्बरमात्रम्॥
. [प्रमेयानुप्रवेशदोषपरिहारः]] यत्पुनः प्रमेया'नुप्रवेशदूषणमभ्यधायि--तदपि न सांप्रतम् ॥ 'किं प्रमेयमभिमतमत्रभवताम् ? किं सत्तामात्रम् ? उत बहिर्देशविशषितं सत्त्वम् ? .
सत्तामात्र तावदागमादेवावगतमिति न प्रमाणान्तरप्रमेयतामवलम्बते । बहिर्देशविशेषितं तु सत्त्वं भवति प्रमेयम् । तस्य तु तदानीमनुप्रवेशः कुतस्त्यः ? गृहाभावग्राहकं हि प्रमाणं गृह एव सदुपलम्भकप्रमाणावकाशमपाकरोति, न बहिस्सदसत्त्वचिन्तां प्रस्तौति ॥
मृतस्य जीवतो दूरे तिष्ठतः प्राङ्गणेऽपि वा। . गृहाभावपरिच्छेदे न विशेषोऽस्ति कश्चन ॥ १३५ ॥ चैत्रपतियोगिकः, जीवन्मनुष्यप्रतियोगिकगृहानयोगिकाभावत्वात्, यत्र जीवन्मनुष्यप्रतियोगिकगृहानुयोगिकाभावत्वं तत्र बहिर्गतमनुष्यप्रतियोगिकत्वं, यथा जीवन्मैत्रप्रतियोगिकगृहानुयोगिकाभावे इति अनुमानाकार निष्कर्षः ॥
आगमात् ज्योतिश्शास्त्रादिरूपात् , लौकिकाद्वा मातोश्चरितात् । एवञ्च सत्त्वपामान्यं न पुनरनुमीयते, येन प्रमेयानुप्रवेशः आपायते। बहिर्देशे सत्त्वं स्वनुमेयं भवति। अस्य त्वनुमानकाले कथमनुप्रवेशः ? इत्यर्थः । गृहाभावग्राहकमिति । गृहे अभावग्रहणं प्रति जीवनग्राहि प्रमाण न हि बाधकम् । गृहेऽभावग्राहकस्य गृहे सत्त्वग्राहकेणैव विरोधः। अतः गृहेऽभावग्रहणकाले बहिस्सत्त्वरूपस्य प्रमेयस्य नानुमवेशमसङ्ग इति भाव: ॥
गृहेऽभावग्रहणकाले बहिस्सदसत्त्वस्यासंबन्धं उपपादयति-मृतस्येति। मृतस्य वा दूरे-देशान्तरे जीवतो वा मागणे-बहिः यत्र कुत्रचित् तिष्ठतोऽपि वा
'साध्योऽर्थ:-ख.
धर्मी-ख.
प्रवेशा-ख.
सां-क.
वृत्तस्य-ख.
.
...
.
+