________________
114 अापत्तिप्रकरणम्
न्यायमञ्जरी व्याप्रियमाणत्वं शातमायुष्मता। कार्यानुमेयो हि व्यापार: 'कार्य। विना न शायेतैव। कार्य त्वन्यतरस्मादपि घटमानं नोभयं कल्पयितुं प्रभवति-इत्यलं प्रसङ्गेन।
प्रकृतमनुसरामः। तस्मादतीन्द्रियायाः शक्तरभावात् निर्विषया यथोदाहृताः ता अर्थापत्तयो भवन्ति ॥
[सिद्धयन्त्यपि शक्तिः अनुमानेनैव, न स्वर्थापत्या] अपि वा शक्तिरतीन्द्रिया अनुमानस्यैव विषयः । कार्यस्य कारणपूर्वकत्वेन व्याप्तिग्रहणात्, स्वरूपमात्रस्य च कारणत्वानिहणात् अधिकं किमप्यनुमास्यते; सा शक्तिरिति ॥
शब्दनित्यत्वसिद्धौ तु याऽर्थापत्तिरुदाहृता। . . तस्याः शब्दपरीक्षायां समाधिरभिधास्यते ॥ १३४॥
[भभावपूर्विकाया अर्थापत्तरप्यनुमानान्तर्भाव:) अभावपूर्विकाऽप्यर्थापत्तिग्नुमानमेव । जीवतो गृहाभावेन लिङ्गभूतेन बहिर्भावावगमात् । चैत्रस्य गृहाभावों धर्मी, बहिर्भावेन तत्रानिष्पत्या छेदनेन न हि तदनुमेयम् । एवञ्च कार्यानुमेयः अतीन्द्रियो व्यापारी नास्त्येव। परिदृश्यमानादप्यतिरिक्त ऽतीन्द्रियो व्यापारः अस्ति चेत् , मलं शक्तिकल्पनया। कार्यानुरोधेन कल्पनायां अन्यतरेणेव कार्यस्योपपत्तः भन्यतरदेव सिद्धयेत् , नोभयमपीति । सिद्धान्ते च अतीन्द्रियेणादृष्टादिनेव सर्वनिर्वाहात् शक्तिरनुपयुक्तैवेति॥
शक्तिसाधनायार्थापत्तिरपि नावश्यकीत्याह-अपि वेति । कारणत्वानिर्वहणादिति । प्रतिबन्धकसमवधानकाले स्वरूपमात्रेण कार्यानुदयादिति भावः॥
उदाहृतेति। अर्थापत्तिपूर्वकार्थापत्तिनिरूपणप्रकरणे (१६ पु.) इत्यर्थः। तस्याः समाधिरित्यन्वयः॥
गृहाभावः-गृहे अभाव इत्यर्थः। चैत्रप्रतियोगिकः गृहानुयोगिक: मभाव इति यावत् । एवमुत्तरत्र मनुष्यगृहाभावत्वादित्यादावपि बोध्यम् । धर्मी-पक्षः। तथा च चैत्रप्रतियोगिकगृहानुयोगिक: अभाव:, बहिर्गत
। कार्यात्-क. वाहात्-क.