SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ आह्निकम् १ | शक्तेरतिरिक्तपदार्थत्वनिरास: 113 कल्प्यमानमपि चादृष्टं तत् कल्प्यतां यत् अनवस्थां नाव 'हेत' ; धर्मादिवत् ॥ अपि च व्यापारोऽप्यतीन्द्रियः शक्तिवदिष्यते भवद्भिः ; अन्यतरकल्पनयैव कार्योपपत्तेः किमुभयकल्पना गौरवेण ॥ • [शक्त्यनङ्गीकारेऽपि कारकाणां कारकत्वं निर्वहत्येव ] शक्तमव्याप्रियमाणं न कारकं कारकमिति चेत् ; तच्छतमिति 'तदा' कथं जानामि ? कार्यदर्शनात् ज्ञास्यामीति चेत्; व्यापारादेव कार्य सेत्स्यति ॥ पादुकादेर्व्याप्रियमाणादपि न पादपच्छेदो दृश्यत इति चेत्; प्रत्यक्षस्तर्हि व्यापारः, नातीन्द्रियः ; यतः कार्यदर्शनात्पूर्वमपि तत् - तादृशम् । यथा कल्पने अनवस्था नापादयितुं शक्या तथेत्यर्थः ॥ ननूक्तं तथैव धर्मिग्राहक मानादिति – इत्यत्राह - अपि चेति । उपपादितमेतत् पूर्वमेव ॥ 9 ननू भयमप्यावश्यकमेव । न हि शक्तमपि कारकं क्रिया वेशमन्तरा कार्यनिर्वर्तकम् | छेदनशक्तोऽपि परशुरुद्यमनादिरिक्तं कथं छेदकम् ? अत उभयमध्यावश्यकमेवेति शङ्कते -- शक्तमिति । जानामि -- जानीयां - श्रद्दध्यामिति यावत् । तत् कारकं, अथवा तस्मिन् कार्ये शक्तमित्यर्थः । कारकम्' इति पूर्ववाक्यादाकृष्टव्यन् । शक्तमन्याप्रियमाणमित्याद्यास्ताम् । प्रथमं 'शक्तं ' इति सिद्धौ उपरितनं सेत्स्यति । अतस्तदेव प्रथमं वक्तव्यं इत्यर्थः ॥ I व्यापारादेवेति । कार्यदर्शनात् व्यापार एवानुमीयताम् । कथं तावता शक्तिसिद्धिरित्यर्थः ॥ व्यापृतादप्यशक्तात् पादु ननु व्यापारादेव कार्यसिद्धिरनुभवविरुद्धा । कादेः छेदनासंभवात् । अत: शक्तिरप्यावश्यकीति शङ्कते - पादुकादेरिति । न दृश्यत इत्यन्वयः । तथा च पादपच्छेदानुगुणशक्तिः परश्वधादौ वर्तते, न पादुकादाविति कल्प्यमित्यर्थः । एवं तर्हि अतीन्द्रिया अतिरिक्ता च शक्तिः व्यापारश्चेत्युभयं न सिद्धये देवेत्याह- प्रत्यक्षस्तदति । व्याप्रियमाणत्वं हि उद्यमननिपातनादिक्रियान्वयित्वम् । तच प्रत्यक्षमेव । छेदनरूपकार्यस्यैव 1 हते क. NYAYAMANJARI 2 तथा - ख.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy