________________
112 अर्थापत्तिप्रकरणम्
[न्यायमञ्जरी स्वरूपमात्रकार्यत्वे-पुनरपि सर्वदा कार्योत्पादप्रसङ्गः; सर्वदा शरुत्पादात्। सामग्रीकार्यत्वे तु 'कार्यमेव सामग्रीकार्यमस्तु किं अन्तरालवर्तिन्या शक्तया?
[अतिरिक्तशक्त्यङ्गीकारे अनवस्थाऽप्यपरिहार्या] अशक्तात कारकात् कार्य न निष्पद्यत इति चेत् ; शक्तिरपि कार्य, तदुत्पत्तावप्येवं शक्तयन्तरकल्पनादनवस्था ॥...
भनवस्थापरिहारशङ्का] आह-दृष्टसिद्धये ह्यदृष्टं कल्प्यते, न तु दृष्टविघाताय । शक्तयन्तरकल्पनायां शक्तिश्रेणीनिर्माण एव क्षीणत्वात् कारकाणां कायेविघातः स्यादिति एकैव शक्तिः कल्प्यते ; तत् कुतोऽनवस्था ?
[एवमपि अक्तिरन्यथासिदैव अत्रोच्यते-यद्यदृष्टमन्तरेण दृष्टं न सिद्धयति, काममष्टं कल्प्यताम् । अन्यथाऽपि तदुपपत्तौ किं तदुपकल्पनेन? दर्शिता चान्य थाऽप्यु'पपत्तिः॥ मानं कारणम् ? उत तदतिरिक्ता सहकारिसामग्री? आये, यावत्स्वरूपं कार्योदयप्रसङ्गः । सहकार्यन्तरापेक्षायां प्रतिबन्धकाभावविशिष्टं स्वरूपं शक्ति प्रति कारणमिति खलु वक्तव्यम् । तत् कार्य प्रत्येवं कारणमित्यङ्गीकारेणैवोपपत्तौ मध्ये किं शक्तिकल्पनयेत्यर्थः ॥ .
शक्तिरपीति । शक्तेरपि कारणाधीनत्वेन तादृशकारणस्यापि शक्तिमत्वावश्यंभाव इति क्रमेणानवस्थेत्यर्थः ॥
अनवस्थां परिजिहीर्षनि-दृष्टसिद्धय इति। कार्यनिर्वहणायैव कल्प्यमाना शक्तिस्तदनुरूपैव सिद्धर्यात । अनवस्थायां तु कथं तया कार्य निरुह्येतेति धर्मिग्राहकप्रमाणादेवानवस्थापरिहार इति भावः ।।
दर्शिता चेति। 'मन्त्राभावोऽप्यपेक्ष्यताम्' इत्यादिनेत्याशयः ॥
'वे-क.
कार्य-ख.
तस्क-क.
थो-ख.