________________
आह्निकम् १]
शंकर तिरिक्तपदार्थत्वनिरास:
प्रतिबन्धस्तु स्वरूपस्यैव शक्तेरिवास्तु ॥
स्वरूपस्य किं 'जातम् ? शक्तेरपि किं जातम् ? कार्योंदासीन्यमिति चेत्, तदितरत्रापि समानम् ॥
स्वरूपमस्त्येव, दृश्यमानत्वात् इति चेत ; शक्ति' रप्यस्त्येव', पुनः कार्यदर्शनेनानुमीयमानत्वादिति ॥
[शक्तेः नित्यत्वानित्यत्वविकल्पनेन दूषणम् ]
किञ्च शक्तिरभ्युपगम्यमाना पदार्थस्वरूप वन्नित्या अभ्युपगम्येत ? कार्या वा ? नित्यत्वे --सर्वदा कार्योदयप्रसङ्गः । सहकार्यपेक्षायां तु स्वरूपस्यैव तदपेक्षाऽस्तु, किं शक्तया ? कार्यत्वे तु - शक्तेः पदार्थस्वरूपमात्र कार्यत्वं वा स्यात् ? सहकार्यादिसामग्री कार्यत्वं वा ?
111
पुनस्तत्रोत्पादे हेतु: वक्तव्यः । यदि कारणस्वरूपमात्रं शक्तेर्हेतुः ; तर्हि प्रतिबन्धककालेऽपि कारणस्वरूपस्य शक्तिहेतोः सच्चे कथं तन्नाशः । यदि च प्रतिबन्धकाभावविशिष्टं स्वरूपमेव शक्तेर्हेतुः तर्हि प्रतिबन्धकाभाव विशिष्टं स्वरूपं कार्यस्यैव हेतुरङ्गीक्रियतां किमन्तर्गडुना शक्तया ? इति ॥
प्रतिबन्धकेन शक्तिर्न नाश्यते, किन्तु तस्याः कार्यो मुख्यमात्रं वार्यते इति द्वितीयकल्पं प्रतिवक्ति - प्रतिबन्ध इति । कारणस्वरूपमेव प्रतिबन्धकसमवहितं चेत् कार्यविमुखं भवतीति कल्प्यताम् । किमन्तर्गडुना शक्त्या ? इति भावः ॥
ननु स्वरूपं प्रतिबन्धेन नाशयितुं न शक्यम् एवञ्च स्वरूपं प्रत्यकिञ्चिस्कारिणा प्रतिबन्धेन कथं कार्यनिरोध इति शङ्कते - स्वरूपस्येति । एवमाक्षेपपरिहारौ शक्तिपक्षेऽपि तुल्यावित्याह शक्तेरपीति । भतिरिक्तातीन्द्रियशक्तिकल्पनागौरव परमवशिष्यत इति शेषः ॥
अनुमीयमानत्वादिति । शक्तिनाशपक्षस्वनुपदमेव प्रतिक्षिप्त इत्यर्थः ॥
नित्येत्यादि । अत्र नित्यत्वं न सदातनत्वं,
असंभवात् । किन्तु यावत्स्वरूपभावित्वमेव । ' पदार्थ स्वरूपवत्' इत्यनेनायमर्थः सूचितः । सहकार्य पेक्षायामिति । नित्याया अपि शक्तेः कार्यकरणार्थ सहकार्यन्तरापेक्षायामित्यर्थः । पदार्थस्वरूपमात्रेति । शक्त्युत्पत्तौ किं पदार्थस्वरूप
1 जातम् - ख.
,
2 तोड़-ख. 'रप्यस्ति - ख. 4 दर्शनेनानुमेयत्वाद - क.