________________
110 अर्थापत्तिप्रकरणम्
न्यायमजरी यदपि विषदहनसन्निधाने सत्यपि मन्त्रप्रयोगात् तत्कार्यादर्शनम् ,-तदपि न शक्तिप्रतिबन्धननिवन्धनम् ; अपि तु सामग्रधन्तरानुप्रवेशहेतुकम् ॥
ननु मन्त्रण' प्रविशता तत्र किं कृतम् ? न किञ्चित् कृतम् : सामग्रयन्तरं तु संपादितम् । काचिद्धि सामग्री कस्यचित् कार्यस्य हेतुः॥
स्वरूपं तदवस्थमेवेति चेत् ; यद्येवं अभक्षितमपि विषं कथं न हन्यात् ?
तत्राऽऽस्यसंयोगाद्यपेक्षणीयमस्तीति चेत्, मन्त्राभावोऽ. प्यपेक्ष्यताम् । दिव्यकरणकाले धर्म इव मन्त्रोऽप्यनुप्रविष्टः कार्य प्रतिहन्ति ॥
शक्तिपक्षेऽपि वा मन्त्रस्य को व्यापारः १ मन्त्रेण हि शक्त शो वा क्रियते? प्रतिबन्धो वा ? न तावत् नांशः; . मन्त्रापगमे पुनस्तत्कार्यदर्शनात् ॥ .
सामग्रथन्तरं-- विपरीता सामग्री ॥
तत्र-कारणस्वरूपे। काचिदिति। काचिदेव मन्त्राद्यघटिता सामग्री दाहादिकार्यस्य हेतुः । मन्त्रघटने च मन्त्राद्यघटितसामग्री शिथिला, मन्त्रादिघटितसामग्रयन्तरं चापतितम् , अतो न दाह इत्यर्थः ॥
तदवस्थमेवेति। न हि मन्त्रेण पूर्वतनसामग्रीस्वरूपे वैकल्यादिकमापादितम् । एवञ्च कुतो न दाइः इत्याशयः। अभक्षितमिति। विषस्य हि विनाशहेतुत्वं स्वरूपम् , एवं न अभक्षितं विषं कुतो न हन्ति ? यदि अभक्षिते हननशक्ति स्ति, तर्हि शक्तिरेव न सिद्धयेत्, अतः तत्र आस्यसंयोगोऽपि सहकारिसमुदायगतमङ्गीकर्तव्यम् । एवं प्रकृतेऽपि मन्त्राभावः सहकारिसमदायघटकः। मन्त्रसन्निधाने च मन्त्राभावरूपसहकारिण: वैकल्यं जातम। एवञ्च पूर्वतनसामग्री नष्टेति न दाहः । एवमेवोपपत्तौ किं भतीन्द्रियशक्तिकल्पनेनेत्यर्थः। एवमनङ्गीकारे शक्तयङ्गीकारेऽपि न निर्वृतिरित्याह-शक्तिपक्षेऽपीति । पुनरिति । अयं भाव:-ननु मन्त्रापगमे शक्तिः पुनरुत्पना। एवं चोपपद्यते कार्यदर्शनमिति चेत् - पूर्व प्रतिबन्धेन नष्टायाः शक्तेः
मन्त्रिणा-ख.
का-क.
रो-क.