________________
आह्निकम् । शरतिरिक्तपदार्थत्वनिरासः
109 शक्नुमः, किन्तु यथाप्रवृत्तमनुसरन्तो व्यवहरामः। न ह्यस्मदिच्छया आपः शीतं शमयन्ति, कृशानुर्वा पिपासाम् ॥
तत्र छेदनादावन्वयव्यतिरेकाभ्यां वा वृद्ध'व्यवहाराद्वा परश्वधादेरेव कारणत्वमध्यवगच्छाम इति तदेव तदर्थन उपाइनहे, न पादुकादीति ॥
[सर्वस्मात् सर्वदा सर्वोत्पत्तिप्रसङ्गवारणम् ] न च परश्वधादेः स्वरूपसन्निधाने सत्यपि सर्वदा कार्योदयः, स्वरूपवत् सहकारिणामप्यपेक्षणीयत्वात् , 'सहकारिसन्निधानस्य सर्वदाऽनुपपत्तः। सहकारिवर्गे च धर्मादिकमपि निपतति; तदपेक्षे कार्योत्पादे कथं सर्वदा तत्संभवः?
धर्माधर्मयोश्च 'जगद्वैचित्र्यकार्यबलेन कल्पनमपरिहार्यम् । तयोश्च न शक्तित्वादतीन्द्रियत्वम् ; अपि तु स्वरूपमहिनैव; मनःपरमाण्वादिवत्॥
हि कार्यकारणभावज्ञापकौ, न तु कार्यकारणभावकल्पको। यथानुभवं लोक: प्रवर्तते। एवञ्च शक्तेरभावेऽपि परशुरेव छेदनायोपादीयते, तथानुभवात् । भन्यथा छेदनानुगुणा शक्तिः परशुमेवाश्रयते, न पादुकामिति कुत: अवगतम् ? भनुभवात्तथेति चेत् . सेनैवानुभवेनोपादानादिकमप्यस्तु, मध्ये किं शक्तिकल्पनयेति ॥ .. अशक्तत्वाविशेषात् सर्वस्मात् सर्वदा कार्योत्पत्तिप्रसन्न इति दोषं परिहरति-न चेति । ननु यादृशाद्वः दाहः, तादृशादेव मन्त्रादिप्रतिबद्धात् न दाहः । तदानीं च स्वरूपं सहकारिसान्निध्यं च तदवस्थमेवेति कथं न दाह इति शङ्कायां, सहकारिषु कालेश्वरादृष्टानामतीन्द्रियाणामप्यन्तर्भावात्, तदन्यतमलोपः संभावनाई इति न तेन शक्तिसिद्धिरित्याह-सहकारिवगै चेति ॥ - नन्वङ्गीकृतः अतिरिक्त: अतीन्द्रियः पदार्थः। तस्य शक्तिरिति वा धर्म इति वा यथेच्छं नाम क्रियताम् । न हानिरित्यत्राह-धर्माधर्मयोश्चेति। धर्माधौं हि चेतनगतावतिशयौ जगद्वैचित्र्यान्यथाऽनुपपत्त्या सर्वैरप्यवश्यकल्प्यौ । तेनैव चेतनगतातिशयेन दाहादिप्रकृतकार्योत्पत्तेर्निर्वाहे भूतधर्मः शक्त्याख्यः भपूर्व: न कल्प्य इति भावः। ननु वयमप्यतीन्द्रियं सहकारिविशेषमेव शक्ति धूमः! को विशेषः । इत्यत्राह-तयोश्चेति ॥
1वृद्ध-ख. सहकार्यादि-ख. वै-स्त्र. .