________________
108 अर्थापत्तिप्रकरणम्
[न्यायमञ्जरी शक्तेरनभ्युपगमे हि द्रव्यस्वरूपाविशेषात् सर्वस्मात् सर्वदा सर्वकार्योदयप्रसङ्गः। तथा हि-विषदहनयोर्मारणे दाहे च शक्तावनिष्यमाणायां मन्त्रप्रतिबद्धायां स्वरूपप्रत्यभिज्ञायां सत्यामपि 'स्वकाय? दासीन्यं यत् दृश्यते, तत्र का युक्तिः ? न हि मन्त्रेण स्वरूपसहकारिसान्निध्यं प्रतिवध्यते तस्य प्रत्यभिज्ञायमानत्वात्। शक्तिस्तु यतिबध्यत इति सत्यपि स्वरूपे सत्स्वपि सहकारिषु कार्यानुत्पादो युक्तः ॥
किञ्च सेवाध्ययनादिसाम्येऽपि फलवैचित्र्यदर्शनात् । अतीन्द्रियं किमपि कारणं कलिलतमेव धर्मादि भवद्भिः। अतः शक्तिरतीन्द्रिया तथाऽभ्युपगम्यतामिति ॥
शक्तेरतिरिक्तत्वनिराकरणम् ] तदेतदनुपपन्नम्-यत्तावदुपादान नियमादित्युक्तं-तत्रोच्यते। न हि वयमद्य किश्चिदभिनवं भावानां कार्यकारणभावमुत्थापयितुं
पादपच्छेदाय कथं पादुकोद्यमप्रसक्तिरिति शङ्कायामाह-शक्तरित्यादि । परशुगदुकयोरुभयोरपि पादपच्छेदनानुगुणशक्तिशून्यत्वाविशेषे कुतः पादुका नोद्यम्यते पादपच्छेदाय? अत: शक्तिमत्त्वतदभावाभ्यामेव निर्वाहो वाच्य इत्यर्थः। मन्त्रेण प्रतिबद्धं विषदहनयो: स्वरूपमेव पूर्वस्वरूपापेक्षया मित्रं कुतो न स्यादिति शङ्कायामाह-स्वरूपप्रत्यभिज्ञायां सत्यामपीति । स्वरूपेत्यादि। स्वरूपस्य सहकारिणो वा सान्निध्यमित्यर्थः । पूर्व यादृशं स्वरूपं यादृशसहकारिसहकृतं दाहादिजनकमासीत, मन्त्रादिप्रयोगानन्तरं तत्र स्वरूपे महकारिषु वा सन्निहितानां 'तदेवेदं' इति प्रत्यभिज्ञासत्वात् शक्तिनाशमन्तरा कार्यानुदयो न निर्वोढुं शक्य इति भावः। अतिरिक्तशक्त्यङ्गीकारे वा कथं प्रतीकार: ? इत्यत्राह-शक्तिस्त्विति ॥
सेवा-गुरुशुश्रूषा। फलवैचित्र्यं-ज्ञानतारतम्य, शिष्यस्येति शेषः । अतः-- उक्तन्यायात् । तथेति । यथा चेतने धर्मः अतीन्द्रियः अङ्गीकृतः, तथा अचेतनेऽपि कार्यानुकूल: कश्चनाङ्गीकार्य एव । अन्यथा धर्माधर्मावपि न सिद्धयेतां इत्यर्थः ॥
उपादाननियमः पादपच्छेदनाय परशुरेवोपादीयते, न पादुकादीति नियमः। उपादानं-ग्रहणम् । न हीत्यादि। अयं भावः-अन्वयम्यतिरेको .