________________
आह्निकम १] अर्थापत्तेरनुमानेऽन्तर्भावः
107 न विशेषात्मना यत्र संबन्धमानसंभवः ।
तत्राप्यस्त्येव सामान्यरूपेण तदुपग्रहः ॥ १३२॥ अपि च-तेन विना नोपपद्यत इति 'कल्पनमपत्तिः । तेन विना नोपपद्यत इति च व्यतिरेकभणितिरियम्। व्यतिरेकश्च प्रतीतः, तस्मिन् सत्युपपद्यते इत्यन्वयमाक्षिपति। अन्वयव्यतिरेको च गमकस्य लिङ्गस्य धर्म इति कथमपत्तिः नानुमानम् ? केवलव्यतिरेकी हेतुरन्वयमूल एव गमक इति वक्ष्यामः॥
[शक्तिकल्पकार्थापत्तिनिराकरणम्] याश्च प्रत्यक्षादि पूर्विकाः शक्तिकल्पनायामर्थापत्तय उदाहृताः ताश्च शक्तेरतीन्द्रियाया अभावात् निर्विषया एव ॥
स्वरूपादुद्भवत् कार्य सहकार्युपवृह्मितात् । न हि कल्पयितुं शक्तं शकिमन्यामतीन्द्रियाम् ॥ १३३ ॥
[अतिरिक्तशक्तिसाधनम्] ननु शक्तिमन्तरेण कारकं का'रकमेव न भवेत् । यथा पादपं छत्तमनसा परशुरुद्यम्यते, तथा पादुकाद्यप्युद्यम्येत ।
प्रतिवक्ति-न विशेषात्मनेति। यद्विषये विशेषतो दृष्टं जिन संभवति, तत्राऽपि सामान्यतो दृष्टेनेव तदुपपत्तिरित्यर्थः। 'प्रतिबन्धाद्विना' इत्यारभ्यैव सिद्धान्तोपपादनं वा। संबन्धवानं-व्याप्तिज्ञानम् ॥
यद्यप्यर्थापत्तौ नान्वयन्याप्तिसंभवः, अथापि न्यतिरेकच्याप्तिरियमित्याहअपि चेत्यादि। ननु अभावयोरेव परस्परं व्याप्तिः, तेन च प्रतियोगिनः कथं सिद्धिः? न ह्यन्यत्र व्याप्तिः, मन्यस्य सिद्धिरित्युपपद्यते इति शङ्कायामाहव्यतिरेकश्चेति। तथा च व्यतिरेकन्याप्तिरप्यन्वयदायायैवेति । तथैवोक्तं कुसुमाञ्जली उदयनाचार्यैरपि ॥ - स्वरूपादित्यादि। सहकार्युपबृमितात स्वरूपात्-कारणवस्तुनः उन्नवत् कार्य अन्यां अतीन्द्रियां शक्तिं कल्पयितुं न हि शक्तमित्यन्वयः ॥
'च-ख.
क्ष-क.
'का-ख.