________________
106
[न्यायमजरी
अर्थापत्तिप्रकरणम् ऐन्द्रानादिविकारेषु कार्यमात्रोपदेशतः। यश्च प्रकृतिवद्भावो विध्यन्त उपपाद्यते ॥ १२६ ॥ तदेवमादौ सम्बन्धग्रहणानुपपत्तितः । श्रुतार्थापत्तिरेवैषा निस्सपत्नं विजृम्भते ॥ १२७ ॥ 'तया' श्रुत्यैकदेशश्च सर्वत्र परिकल्प्यते । अर्थकल्पनपक्षे तु न स्याद्वेदैकगम्यता ॥ १२८ ॥ . इत्यर्थापत्ति'रुक्कै पा षट्प्रमाणसमुद्भवा । [अर्थापत्ति: न प्रमाणान्तरम् , किन्तु अनुमानमेव] एषा विचार्यमाणा तु भिद्यते नानुमानतः " १२९ ॥.. प्रतिबन्धाद्विना वस्तु न वस्त्वन्तरबोधकम् । यं कश्चिदर्थमालोक्य न यः कश्चित् प्रतीयते ॥१३०॥ प्रतिबन्धोऽपि नाशातः प्रयाति मतिहेतुताम् । न सद्योजातबालादेः उद्भवन्ति तथा धियः ॥ १३१ ॥
रतिदशेन कल्पनमित्युक्तं सप्तमचतुर्थपादे। ऐन्द्राग्नेत्यादि । 'ऐन्द्राग्नमेका. दशकपालं निर्वपेत् प्रजाकामः' इति विहिताया इष्टेः दर्शपूर्णमासोकाङ्गातिदेश इति ‘इष्टिषु दर्शपूर्णमासयोः प्रवृत्तिः स्यात् ' (८-२-५) इत्यत्रोक्तम् । प्रकृतिवद्भाव:-प्रकृतिवत् भावः स्वरूपावाप्तिरित्यर्थः । विध्यन्तशब्दस्त्वेवं भाषित: शबरस्वामिभि:-'दर्शपूर्णमासाभ्यां यजेत' इति विध्यादिः। विध्यन्तोऽपि 'प्रधानविधिवर्जितं कृत्स्नं पौरोडाशिकं ब्राह्मणम्' इति (७-४-२०)। मर्थापत्तिपूर्वपक्षमुपसंहरति --इत्यर्थापत्तिरिति ॥
'भिद्यते नानुमानतः' इत्युक्तमाक्षिपति- प्रतिबन्धादित्यादि । यः कश्चित् अर्थ इति शेषः । न हि घटं पश्चन् पटं कश्चिनिश्चिनोतीत्यर्थः । सद्योजातेति । न हि सद्यो जातो बालः धूमात् वह्नि प्रतिपत्तमलम् । अतः अज्ञात: प्रतिबन्ध: न निर्णय हेतुरित्यर्थः। तथा च पूर्वोदाहृतस्थले चैत्रस्य बहिर्भावादेः पूर्वमनवगतत्वेन कथं व्याप्तिग्रह इत्यर्थः। उक्तमर्थ
'तथा-क.
रेवै क.
३ यत्कि-ख.
'व्य-क.
च-ख.