________________
105
आह्निकम् १] श्रुतार्थापत्तेरावश्यकता
शब्दैकदेशश्रुत्याऽतः तदंशपरिपूरणम् । कल्प्यं, प्रथममर्थस्य कुतस्तेन विना गतिः ? ॥ १२२ ॥ प्रायः श्रुतार्थापत्या च वेदः कार्येषु पूर्यते । तत्रार्थः कल्प्यमानस्तु न भवेदेव वैदिकः ॥ १२३ ॥ यो मन्त्रैरष्टकालिङ्गैः तद्विधिः' परिकल्प्यते । श्रुतिर्लिङ्गादिभिर्या च कल्प्यते विनियोजिका ।। १२४ ॥ विश्वजित्यधिकारश्च यागकर्तव्यताश्रुतेः ।
उत्पत्तिवाक्यं सौर्यादावधिकारविधिश्रुतेः ॥ १२५ ॥ तदंशेति। अश्रुतांशेत्यर्थः । कल्प्यमित्येतदनन्तरं एवञ्चेति शेषः । तेन विना-शब्दन विना अर्थस्य प्रथमं कुतः-केन प्रमाणेन गतिः-अवगति:निश्चय इति यावत् । ननु श्रुतार्थापत्तिस्थले कल्प्यमानस्यार्थस्य शाब्दरूपत्वानङ्गीकारे का हानि:? इति शङ्कायां 'प्रायशश्चानया वेदे व्यवहारो व्यवस्थितः । सोऽवैदिकः प्रसज्येत यथेषा मिद्यते ततः' इति वार्तिकोक्तमेव समाधानमाहप्राय इत्यादि । वार्तिकस्यायमर्थः-अनया-श्रुतार्थापत्यैव प्रायः सर्वोऽपि व्यवहारो वेदे वर्तते। केवलश्रोतार्थापेक्षया श्रुत्यर्थापत्तिसिद्धार्था एव वेदेषु बहवः । एवं स्थिते तेऽर्था यदि अनुमानगम्याः, तर्हि वेदगम्या न स्युः; तथा च तेषां धर्मत्वमपि न स्यात् । चोदनालक्षणत्वाद्धर्मस्येति । वैदिक:वेदैकगम्यः ॥
पूर्व कार्येषु ' इत्युक्तार्थे निदर्शनान्याह-यो मन्त्ररित्यादि। अष्टकाश्राद्धलिङ्गभूतैः मन्त्रैः अष्टकाश्राद्ध विधि: कल्पनीया। तथा च स्मृत्यधिकरणशाबरभाष्यम्-'अष्टकालिङ्गाश्च मन्त्रा वेदे दृश्यन्ते-तेषु वैदिकशब्दानुमानमिति' इति। श्रुतिरित्यादिः। अयमंश: पूर्वमेव 'विनियोकी श्रुतिस्तावत्' इत्यत्र विवृतः। विश्वजितीत्यादिः। विश्वजिदधिकरणे (४-३-५) 'तस्मात् श्रुत्येकदेशः सः' इतिश्रुतिखण्डभाष्यायुक्तोऽयमर्थः । भधिकारः-फलसम्बन्धः। फलमन्तरा कर्तव्यत्वविधिर्न संभवतीति फल विधिरनुमेयेति यावत् । सौर्यादाविति । 'सौर्य चळं निर्वपेत् ब्रह्मवर्चसकामः' इत्यस्य कर्मस्वरूपबोधकोत्पत्तिविध्यभावे वैयर्थ्य मिति दर्शपूर्णमासादिविधे
ध:-स्व..
लि-क. ख.