________________
104
अर्थापत्तिप्रकरणम्
[न्यायमञ्जरी
[श्रुतार्थापत्तिस्थले अर्थानुमानमपि न संभवति] ननु ! अर्थादेव कथमर्थान्तरं न कल्प्यते? पीवरत्वं हि नाम भोजनकार्यमुपलभ्यमानं स्वकारण भोजनं, अनलमिव धूमः समुपस्था'पयतु तच्च वचसा कालविशेषे निषिद्धं तदितरकालविशेषविषयं भविष्यतीति किं वचनानुमानेन ? वचनमपि नादृष्टार्थ, अपि तु अर्थगत्यर्थमेव। तत् अस्य साक्षादर्थस्यैव कल्प्यमानभ्य को दोषः? यद्यवधानमाश्रीयते-उच्यते
शब्दप्रमाणमार्गेऽस्मिन् अनभिज्ञोऽसि बालक! प्रमाणतैव न ह्यस्य साकाङ्क्षज्ञानकारिणः ॥ ११८ । पुरोऽवस्थितवस्त्वंशदर्शनप्राप्तिनिर्वृति। प्रत्यक्षादि यथा मानं न तथा शाब्दमिष्यते ॥ ११९ ॥ . वाक्यार्थे हि समग्राङ्गपरिपूरण सुस्थित ।
विधाय धियं नास्य व्यापारः पर्यवस्यति । १२० ॥ . तावन्त बोधमाधाय प्रामाण्यं लभत वचः। तदर्थवाचकत्वाञ्च तद्वाक्यं वाक्य मिष्यते ॥ १२१ ॥
तञ्च-भोजनं च। कालविशेषे-दिवा । तदितरकालः-रात्रिः । अर्थगतिः-अर्थावगतिः। वचनं खलु अर्थावगत्यर्थमेवापेक्षणीयं, अर्थावगतेरेवानुमानतः सिद्धौ मध्ये किं तेन ?. इत्यर्थः। तत्-तस्मात् । अस्यअनुमितेन शब्देनाभिधेयस्य ॥
समाधत्ते - उच्यत इति । . न हीत्यादि। निराकांक्षबोधजनकं वाक्यमेव प्रमाणम् । न तु यथाकथञ्चिद्यत्किञ्चिदर्थोपस्थापकम्, उन्मत्तवाक्यानामपि प्रामाण्यापत्तेः। प्रत्यक्षं तु पुरोवस्थितवस्तुनि साशानवगाहनेऽपि यावद्गहण प्रमाणं भवितुमर्हति । न तथा शब्दः। शब्दस्य व्यापारो हि यावताऽर्थपरिसमाप्तिः तावत्पर्यन्तं भवस्येव, एवं च श्रृतार्थापत्तिस्थले, श्रुतेन वाक्येन पूर्णस्य बोधस्यानिर्वाहात् , तद्वाक्यस्य प्रामाग्यरक्षणायैव वा वाक्यान्तरमेव कल्पनीयं, न स्वर्थमात्रं यथाकथञ्चित् । एवञ्च वाक्यान्तरकल्पनस्यैवाव परप्राप्तत्वे मध्ये त पूर्व अथकल्पनायाः का प्रसक्तिः? इति समुदितार्थः ।
त्था-क. दु-क. भि-ख.