________________
आह्निकम् १] भ्रतार्थापत्तिनिरूपणम्
103 न च दिवावाक्यं, तदर्थो वा' निशावचनानुमाने लिङ्गतां प्रतिपत्तुमर्हति
अश्रते हि निशावाक्ये कथं तद्धर्मताग्रहः।
श्रुते तु तस्मिन् तद्धर्मग्रहणे किं प्रयोजनम् ? ॥ ११७ ॥ दिवावाक्यपदार्थानां तिष्ठतु लिङ्गत्वं, अनुपपद्यमानतयाऽपि न निशावाक्यप्रत्यायकत्वमवकल्पते । पदार्थानां हि सामान्यात्मकत्वात् विशेषमन्तरेणानुपपत्तिः स्यात् , न वाक्यान्तरमन्तरेण । तस्मात् श्रूयमाणं वाक्यमेव तदेकदेशमन्तरेण निराकाङ्क्षप्रत्ययोत्पादकस्वव्यापारनिर्वहण सन्धिमनधिगच्छत् तदेकदेशमाक्षिपतीति सेयं प्रमाणैकदेशविषया श्रुतार्थापत्तिः ॥
प्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात् ' (जै. सू. ३-३-१४) इनि सूत्रवार्तिकस्थोऽयं श्लोकः। एतेषु प्रकरणादिषु सर्वेष्वपि स्थलेषु श्रुतिस्तावत् विनियोक्री-विनियोजिका सम्मता इत्यन्वयार्थः । अयं भावः । विनियोजकप्रमाणेषु श्रुत्यादिषु मध्ये पूर्वपूर्व प्रबलम्। उत्तरोत्तरं दुर्बलम । लिङ्गादीनि हि न साक्षाद्विनियोजकानि, किन्तु श्रुतिकल्पनयैव । धर्मस्य चोदनालक्षणत्वेन श्रुत्येकसमधिगम्यत्वात् । एवञ्च सर्वत्रापि लिङ्गादिषु श्रुतिकल्पनैव । सा च श्रुतिनित्यानुमेयैवेति तद्विषयकच्याप्तिग्रहणं दुर्घटमेव । अत्र वार्तिके सर्वे वेतेष्विति दृष्टया 'सर्वत्र प्रकरणादौ' इत्युक्तम् । यद्यपि लिङ्गादिग्वित्येव वक्तव्यं, प्राथम्यात् ; अथापि प्रकरणसमाख्ययोः बलाबलविचारप्रकरणस्थत्वात् अस्य वार्तिकस्य, 'प्रकरणादौ' इत्युक्तम् ।।
दिवावास्यं, तदर्थो वा निशावाक्यानुमाने लिङ्गमिति विकल्प्य दूषयतिनचेत्यादिना। दिवावाक्य-दिवा न भुङ्क्त इति वाक्यम् । तद्धर्मताग्रहःनिशावाक्यधर्मत्वेन ज्ञानं दिवावाश्य य कथम् ? इत्यर्थः। धर्म:-लिङ्गम् । यदि च निशाभोजनवाक्यं श्रुतम् , ताई तदनुमानं नोत्तिष्टत्येवेति ॥ ____तदर्थो वा? इति द्वितीयकल्पं प्रतिवक्ति-दिवावाक्यपदार्थानामिति। सामान्यं हि पदार्थ: । विशेषश्च वाक्यार्थः। सामान्यानां विशेष विनाऽनुपपद्यमानत्वात् विशेषप्रत्यायनायालं भवेदा तत्पदार्थः, न तु वाक्यापस्थापनाय । मतमात्र निशावास्योपस्थिति: प्रमाणान्तराधीनैवेत्यर्थापत्तिसिद्धिरित्यर्थः।।
'ऽपि-ख.
'णं-ख.