________________
102
अर्धापत्तिप्रकरणम्
न्यायमजरी
तस्मात् कल्प्यागमकृतं नकमत्तीति वेदनम् । तद्वाक्यकल्पनायां 'च' प्रमाणं परिचिन्त्यताम् ॥ ११४ ॥ नाऽध्यक्षमनभिव्यक्तशब्दग्रहणशक्तिमत् । न लिङ्गम् ; अगृहीत्वाऽपि व्याप्तिं तदवधारणात् ॥ ११५॥ क्वबिनित्यपरोक्षत्वात् व्याप्तिबोधोऽपि दुर्घटः ।
विनियोकी श्रुतिर्यत्र' कल्प्या प्रकरणादिभिः ॥ ११६॥ विनियोक्री हि श्रुतिः' सर्वत्र प्रकरणादौ वाक्यविद्भिरभ्युप.. गम्यते। यथोक्तम्
'विनियोकी श्रुतिस्तावत् सर्वेष्वेतेषु सम्मता' इति । तस्याश्च नित्यपरोक्षत्वात् दुरधिगमस्तत्र लिङ्गस्य प्रतिबन्धः। न च निशापदवचनस्य सत्ताऽनुमातुमपि शक्या, तस्यां साध्यायां भावान भावोभयधर्मकस्य हेतोरसिद्धावरुद्धानैकान्तिकत्वेनाहेतुत्वात् । न चात्र धर्म:' कश्चिदुपलभ्यते; यस्तेन तद्वान् , पर्वत इवाग्निमान् अनुमीयते ॥
'तस्मात् वाक्यान्तरेणायं बुद्धिस्थेन प्रतीयते। तस्य चागमिकत्वेऽपि यत्तद्वाक्यं प्रतीयते । प्रमाणं तस्य वक्तव्यं प्रत्यक्षादिषु यद्भवेत् । न ह्यनुचारिते वाक्ये प्रत्यक्षं तावदिष्यते। नानुमानं न चेदं हि दृष्टं तेन सह क्वचित् ' इत्यादिवार्तिकोक्तं परिष्कृत्यानुवदति-तस्मादित्यादि। तस्मात् ... भेदसंसर्गातिरिक्तविषयकशाब्दबोधं प्रति पदजन्यपदार्थोपस्थितेः कारणत्वात् । अध्यक्ष अनमिव्यक्तशब्दग्रहणशक्तिमत् न इत्यन्वयः । मीमांसकमते शब्दस्य नित्यत्वात् अभिव्यक्तस्यैव श्रोत्रेण ग्रहणात् तथोक्तिः। न लिङ्गं - नानुमानम् । प्राचीनमते ज्ञायमानलिङ्गस्यैव अनुमितिकरणत्वेनानुमानशब्दवाच्यत्वम् । अत्र हेतुः-अगृहीत्वेति। व्याप्तिमगृहीत्वाऽपीत्यन्वयः। कल्प्यतां व्याप्तिज्ञानमित्यत्राह-कचिदिति ॥ ___शब्दस्य कुत्रचित् नित्यपरोक्षत्वमेवोपपादयति-विनियोक्रीत्यादिना। यत्र-यद्विषये। प्रकरणादिभिः यद्विषयिणी विनियाकी श्रुति: कल्प्या, तस्याः श्रुतेर्नित्यपरोक्षवं सिद्धमेवेत्यर्थः। प्रकरणादिभिरित्यादिना लिङ्गवाक्यस्थानसमाख्यानां ग्रहणम् । उक्तमर्थमुपपादयति -विनियोक्री हीत्यादि। वाक्यविद्भिः-मीमांसकैः। विनियोक्रीत्यादि। "श्रुतिलिङ्गवाक्य
तु-ख. स्प-क. हि-क. मी-ख.