________________
श्रुतार्थापत्तिनिरूपणम्
[ श्रुतार्थापत्ति: ]
पीनो दिवा च नातीति साकाङ्क्षवचनश्रुतेः । तदेकदेशविज्ञानं श्रुतार्थापत्तिरुच्यते ॥ ११३ ॥ इहैवंविधाकाङ्क्षवचनश्रवणे सति संमुपजायमानं रजनीभोजन विज्ञानं प्रमाणान्तरकरणकं भवितुमर्हति प्रत्यक्षादेरसन्निधानात् । न प्रत्यक्षं क्षपाभक्षणप्रतीतिक्षमम्, परोक्षत्वात् । नानुमानं, अनवगतसम्बन्धस्यापि तत्प्रतीतेः । उपमानादेस्तु शव नोदेति । तस्मात् शाब्द एव रात्रिभोजनप्रत्ययः ॥
किम् १]
अत्र
शब्दश्च न श्रूयमाण इममर्थममिवदितुमलम्, एकस्य वाक्यस्य विधिनिषेधरूपार्थद्वय समर्थन शून्यत्वात् । राज्यादिपदानामश्रवणात् अपदार्थस्य वाक्यार्थत्वानुपपत्तः । न च विभावरीभोजनलक्षणोऽर्थः दिवावाक्यपदार्थानां भेदः संसर्गे वा ; येनायमपदार्थोऽपि प्रतीयेत ॥
1
101
;
पीन इत्यादि । कुमारिलोऽप्याह - 'पीनो दिवा न भुङ्क्ते चेत्येवमादिवचः श्रुतौ । रात्रिभोजनविज्ञानं श्रुतार्थापत्तिरुच्यते ' इति । परन्तु प्रमेयमर्मविज्ञान चतुरो ग्रन्थकारः श्रुतार्थापत्तिप्रवृत्तिमूलं सूचयितुं पूर्वपक्षमलङ्कृत्य किञ्चिदन्यथा व्याचख्याविति बोद्धव्यम् । आकाङ्क्षा चात्र अर्थविषयिणी । क्षपाभक्षणं - रात्रिभोजनम् । सम्बन्धः - व्याप्तिः । शङ्कव नोतीति । उपमानस्य शक्तिमात्र ग्राहकत्वादिति शेषः । शाब्द एवेति । तस्मात् वाक्यान्तरेणायं बुद्धिस्थेन प्रतीयते इति वार्तिकमपि स्मर्तव्यम् ॥
ण-ख.
ननु पदादनुवस्थितस्यापि संसर्गादेः वाक्यार्थत्वं सिद्धान्तेऽङ्गीक्रियते, एवं प्रकृतेऽप्यस्तु शाब्द एव बोधः इत्याशङ्कय समाधत्ते - न चेत्यादिना । अपदार्थोऽपि भेदः, संसर्गे वा वाक्यार्थो भवितुमर्हति न तदतिरिक्तः रात्रिभोजनादिरित्यर्थः । भेदः - विशेषः, व्यक्तिविशेष इति यावत् । घटत्वादिशक्तानां घटादिपदानां 'घटमानय' इत्यादौ व्यक्तिविशेष बोधकत्वं तात्पर्यवशात् इति व्यक्तिविशेषः परस्परसंसर्गश्च वाश्यार्थः सर्वैरभ्युपेयः । प्रकृते च रात्रिभोजनादिमन्यतररूप इति न शब्दस्तद्बोधक इति भावः ॥
2 नां- क.
च