________________
100 अर्थापत्तिप्रकरणम्
न्यायमजरी अनग्निव्यतिरे'कस्य' निश्चये धूमस्य का वार्तेति चेत्-उच्यतेतत्र धूमज्वलनयोः अन्वयग्रहणसंभवात् न व्यतिरेकग्रहणमाद्रियेरन् । भूयोदर्शन सुलभनियमज्ञानसंपाद्यमानसाध्याधिगम निर्वृत्तमनसां किमनग्निव्यतिरेकनिश्चयेन ? इह पुनरन्वयावसायसमय एव गम्यधर्मस्य दुरवगमत्वमुक्तं, अनन्तदेशवृत्तित्वात् ॥
अनुपलब्ध्या तन्निश्चय इति चेत्-न-मन्दिरव्यतिरिक्तसकलभुवनतलगततदभावनिश्चयस्य नियतदेशयाऽनुपलब्ध्या कर्तुमशक्यत्वात् । तेषु तेषु देशान्तरेषु परिभ्रमन् अनुपलब्ध्या तदभावं निश्चेष्यामीति चेत् --मैवम् --
गत्वा गत्वाऽपि तान् देशान् नास्य जानामि नास्तिताम् ।
कौशाम्ब्यास्त्वयि निष्क्रान्ते तत्प्रवेशादिशङ्कया ॥ ११२ ॥ तस्मादभूमिरियमसर्वज्ञानामित्यर्थापत्त्यैव तन्निश्चयः॥
ननु इत्थममुमर्थमनुमानान्निश्चेष्यामः-देशान्तराणि, चैत्रशून्यानि, चैत्राधिष्ठित देशव्यतिरिक्तत्वात् , तत्समीपदेशवदिति -न-प्रत्यनुमानोपहतत्वात्-देशान्तराणि, चैत्राव्यतिरिक्तानि, तत्समीपदेशव्यतिरिक्तत्वात् , चैत्राधिष्ठितदेशवत् इति। तस्मानियतदेशोपलभ्यमानपरिमितपरिमाणपुरुषशरीरान्यथाऽनुपपत्त्यैव तदितरसकलदेशनास्तित्वावधारणं तस्येति सिद्धम् ॥
अनग्नीति । न ह्मनग्निः सर्वो देशः सुगम: । अग्निशून्यदेशव्यावृत्तताज्ञानाभावे च धूमे व्यभिचारसंशयः स्यादेवेति शेषः। तत्र व्यतिरेकव्याप्तेरन्वयव्याप्त्युपष्टंभकत्वमेव, न स्वातन्त्र्येण वस्तुसाधकत्वमिति समाधत्तेतत्रेति ॥
तन्निश्चयः--देशान्तरासत्त्वनिश्चयः। तत्प्रवेशः--कौशाम्बीप्रवेशः । न हि सकलं भुवनतलं युगपदेवनामादृशेनोपलब्धं शक्यमिति भावः । इयं-भावेनाभावसिद्धिः । ___ तत्समीपदेशव्यतिरिकत्वादिति । चैत्रशून्यत्वेनास्मदिन्द्रियादिगोचरदेशव्यतिरिक्तत्वादित्यर्थः ॥
क-ख. मन-ख. न्य-ख. इति-क.