________________
आलिकम १] अर्थापत्तरतिरिक्तप्रमाणत्वम अतश्च येयमागमादनियतदेशतया क्वचिदस्तीति संवित्तिरभूत् , सैवेयं गृहाभावे गृहीते बहिरस्तीति संवितिर धुना संवृत्ता। तातो वैलक्षण्यात् नानुमानमर्थापत्तिः॥
[अर्थापत्तिस्थले व्याप्तिग्रहणमपि न संभवति] अतश्चैव-सम्बन्धग्रहणाभावात्भावाभावी हि नैकेन युगपद्वह्निधूमवत् । प्रतिबद्ध'तया 'बोर्बु शक्यौ गृहब हैःस्थितौ ॥ १०९ ॥ अन्यथाऽनुपपत्त्या च प्रथमं प्रतिबन्धधीः। पश्चाद्यद्यनुमानत्वं उच्यते, काममुच्यताम् ॥ ११ ॥
नन्वस्त्येव गृहद्वारे वर्तिनः सङ्गतिग्रहः। . भावेना भावसिद्धौ तु कथमेष भविष्यति ॥ १११ ॥
यत्र गृहे चैत्रस्य भावमवगम्य तदन्यथाऽनुपपत्या तदन्यदेशेषु नास्तित्वमवगम्यते-तत्र देशानामानन्त्यात् दुरधिगमः प्रतिबन्धः ।। प्रवृत्तिक्रमः अपत्तिप्रमाणस्य । अयमेव च विशेषोऽस्येतरप्रमाणेभ्यः । मत एवेयमंतिरिक्तं प्रमाणमुच्यतेऽस्मामिः । अतोऽयमपर्यनुयोज्यः- व्याप्त्यादिकमन्तराऽपि इन्द्रियं कथमर्थमवगमयतीत्यादिवत् । तत्तत्प्रमाणानामसाधारण्यं तु सर्वसम्मतमिति ।।
सम्बन्धग्रहणाभावात् इत्यस्य ' प्रतिबद्धतया बोद्धं न हि शक्यौ' इत्यनेनान्वयः । अन्यथेत्यादि। यदि च, प्रतिबन्ध (सम्बधः-ज्याप्तिः)ग्रहणं प्रथमतः अर्थापत्त्यैव, ततश्चानुमानं प्रवर्तत इत्युच्यते--- तदा सिद्धमर्थापत्तेरतिरिक्तत्वमित्यर्थः। तदेतदुक्तं वार्तिक--'तेन सम्बन्धवेलायां सम्बन्ध्यन्यतरो ध्रुवम् । अर्थापत्त्याऽवगन्तव्यः पश्चादस्त्वनुमानता' इति ॥
ननु सम्बन्धग्रहः अर्थापत्त्यैव संभवेदिति नायं निर्बन्धः । गृहद्वारे स्थितः पुरुषः बहिर्गच्छन्तं देवदत्तं पश्यन् युगपदेव देवदत्ते बहिर्भावं गृहेऽभावं च प्रत्यक्षेणैव गृह्णाति यदा तदा तयोः प्रत्यक्षेणैव सातिग्रहः सुलभ इति शङ्कतेनन्विति । समाधत्ते -भावेनेति । एष.--सङ्गतिग्रहः ॥ ___ उक्तमेोपपादयति-योति । एवञ्चोक्तस्थलेऽर्थापत्तिमन्तरा निर्वाहेऽपि भावेनाभावनिर्णयस्थले अर्थापत्तिरेव शरणीकरणीयेति भावः॥
1-ख. 'द-ख. ध-ख. रोडं-ख. न-ख.