________________
98
अर्थापत्तिप्रकरणम
न्यायमञ्जरी
सकलसदुपलम्भकप्रमाणप्रत्यस्तमयपूर्वकम् । इह तु सदुपलम्भक मस्त्येव जीवनग्राहि प्रमाणम् । जीवनं हि क्वविदस्तित्वमुच्यते । अप्रत्यस्तमिते तु सदुपलम्भके प्रमाणे कथमभावः प्रवर्तेत ?' इति प्रवामान एवासौ सदुपलम्भकं प्रमाणं पृथग्विषयमुपस्थापयति---- यहिरस्य भावः, गृहे त्यभाव इति । तेन जीवतो बहिर्भावव्यवस्थापनपूर्वकगृहाभावग्रहणोपपत्तेः प्रमेयानुप्रवेशः॥
___ अनुमाने तु धूमादि लिङ्गग्रहणसमये न मनागपि तदनुमेयदहनलिङ्गयनुप्रवेशस्पर्शो विद्यत इति ॥
ननु अर्थापत्तावपि किं प्रमेयानुप्रवेशो न दोषः ?-न दोष इति ब्रूमः--प्रमाणद्वयसमर्पितैकवस्तुविषयाभावभावसमर्थनार्थमर्थापत्तिः प्रवर्तमाना प्रमेयद्वयं परामृशत्येव, अन्यथा तद्धटनायोगात् । बहिर्वर्तते, गृहेऽसत्वादित्युक्ते मृते व्यभिचारात, शास्त्राद्यवगतजीवनस्य गृहेऽसत्वादित्येव हेतुर्वाच्यः। गृहे अभावग्रहश्च प्रतियोगिग्राहकसर्वप्रमाणाप्रवृत्तावेव संभवेत् । भागमाथवगतत्वात् चैत्रसद्भावस्य प्रतियोगिग्राहकप्रमाणप्रवृत्त्या अभावाग्रहणे प्रसक्ते, गृहे चैत्रे प्रवर्तमानं अनुपलब्धिरूपं प्रमाणं, सत्त्वग्राहक प्रमाणं अन्यविषयं नियोजयति, सत्त्वस्य बहिर्विषयत्वादिति । एवञ्च अनुमानेन निर्णेयः यः बहिःसद्भावरूपोऽर्थः स लिङ्गज्ञान एवं विषयो भवत्येव। आगमात्तु सत्त्वं गृहीतं, अनुपलब्ध्या त्वसत्वं ; न युभयमेकस्य संभव ; नाप्यन्यतराप्रामाण्यं, तुल्यत्वात, अतः इदं प्रमाणद्वयं विषयभेदेन परस्परविरोधं व्यवस्थापयति-गृहेऽभावः, बहिःसत्त्वमिति । एवञ्च हेतुज्ञानकाल एव साध्यस्यापि स्वयं व्यवस्थापनात् न प्रमाणान्तरापेक्षाऽस्तीति अर्थापत्तिर्नानुमानमिति । न ह्येवमनुमाने लिङ्गज्ञानकाल एव साध्यस्यापि भानम् । मतो विलक्षणेयमापत्तिः ॥
'भन्यथानुपपत्तौ तु' इत्यादिना वार्तिकोक्तं वैलक्षण्यमुपपादयितुं स्वयमाक्षिपति, नन्विति। तत्रापि हि प्रमाणप्रवृत्तिकाल एव प्रमेयनिर्णयः उक्तरीत्याऽवर्जनीयः । ततश्च अर्थापत्त्या गम्यं किमन्यदस्तीत्यर्थः। प्रमाणद्वयंभावाभावप्राहक प्रमाणद्वयम् । परामृशत्येवेति । एतदुक्तं भवति -अयमेव
1र्तते-ख.
तल्लिात-ख.