________________
आह्निकम् ११
अर्थापत्तेरतिरिक्तप्रमाणत्वम्
97
[अर्थापत्ति: नानुमानम्] ननु दृष्टेन 'अदृष्टसिद्ध'रनुमानमेवेदं स्यात्-न नुमानं-सामग्रयभावात् । पक्षधर्मतादि सामग्रया यज्ञान'मुत्पद्यते तदनुमानमिति तार्किकस्थितिः। सा चेह नास्ति। बहर्भावविशिष्टे चैत्रे, 'चत्रविशिष्टे' बहिर्भावे वाऽनुमेये कस्य लिङ्गत्वमिति चिन्त्यम् । गृहाभावविशिष्टस्य वा चैत्रस्य? चैत्राभावविशिष्टस्य वा गृहम्य! गृहे चैत्राभावस्य वा? 'तत्र चैत्रादर्शनस्य वा? न चैषामन्यतमस्यापि पक्षधर्मत्वमस्ति। न हि गृहं वा, चैत्रो वा, तदभावो वा, तददर्शनं वा चैत्रस्य धर्मः, तहिर्भावस्य वेत्यपक्षधर्मत्वादन्यतमस्यापि न लिङ्गत्वम् ॥
.. [प्रमेयानुप्रवेशाच अर्थापत्तिर्नानुमानम् ] अपि च प्रमेयानुप्रवेशप्रसङ्गादपि नेदमनुमानम् । तथा हिआगमावगतजीवनस्य गृहाभावेन चैत्रस्य बहिर्भावः परिकल्प्यते, इतरथा मृतेनानैकान्तिको हेतुः स्यात् । अभावश्च गृहीतः सन् बहिर्भावमवगमयति, नागृहीतः; धूमवत् । अभावग्रहणं च ___ 'ज्ञातसम्बन्धस्यैकदेशदर्शनात् एकदेशान्तरेऽसन्निकृष्टेऽर्थे बुद्धिरनुमान' इति मीमांसकैर्लक्षणात् तार्किकेत्युक्तम्। 'बहिर्देशविशिष्टेऽर्थे देशे वा तद्विशेषिते । प्रमेये, यो गृहाभाव: पक्षधर्मस्वसौ क्थम् ? तदभावविशिष्टं तु गृहं धर्मो न कस्यचित् ' - इतिवार्तिकोक्तमुपपादयति-बहि वेत्यादि । यद्यप्यर्थापत्तिसामान्यस्यैवानुमानानन्तर्भावो वर्णनीयः, अथापि अभावपूर्विकां दृष्टान्तीकृत्य शावरभाष्येऽतिरिक्तत्वसाधनात् स एव क्रमोऽत्राप्यादृत: । बहिर्भावचैत्रयो: पक्षसाध्ययोर्विशेषणविशेष्यभावे विनिगमनाविरहेणानुमानद्वयमुपन्यस्तम् । एवमुत्तरप्रकरणं सर्व श्लोकवार्तिकमनुसृत्यैव वर्णितमिति पृथक्पृथक् न वार्तिकं सर्वत्र प्रदर्श्यते, ग्रन्थविस्तरमियेत्यवगन्तव्यम् ॥ ___'जीवतश्च गृहाभावः पक्षधर्मोऽत्र कल्प्यते। तत्संवित्तिर्बहिर्भावं न चाबुध्वोपजायते'-इत्यादिवार्तिकोक्तमनुवदति-अपि चेत्यादिना। प्रमेयानुप्रवेशो नाम प्रमाणेन गम्यस्य प्रमेयस्य प्रमाण एव क्रोडीकरणम् । चैत्रः,
सिद्धसिद्धे-ख. 'सामग्रया हि-क. मुपजन्यते-ख. 'वत्राभावविशिष्टे-स्व. चैत्रा-ख. त५ ख.
NYAYAMANJARI