SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ 96 अर्थापत्तिप्रकरणम् [न्यायमञ्जरी तदिमास्तावदतीन्द्रियशक्तिविषयत्वादापत्तयः प्रमाणान्तरम् । शक्तेः प्रत्यक्षपरिच्छेद्यत्वाऽनुपपत्तेः तदधीनप्रतिबन्धाधि'गम'वैधुयेणानुमानविषयत्वायोगात् ॥ अन्वयव्यतिरेको हि द्रव्यरूपानुवर्तिनौ । शक्तिस्तु तद्गता सूक्ष्मा न ताभ्यामवगम्यते ॥ १०८॥ शब्दोपमानयोस्तु अत्र संभावनैव नारतति अर्थापत्तेरे वैष विषयः॥ अर्थापत्तिपूर्विका यथा'-शब्दकरणिकार्थप्रतीत्यन्यथाऽनुप पत्त्या शब्दस्य वावकशक्तिमवगत्य तदन्यथाऽनुपपत्त्या तस्य नित्यत्वकल्पना। सा चेयं शब्दपरीक्षायां वक्ष्यते ॥ अभाव पूर्विका' तु भाष्यकारेणोदाहृता-जीवतश्चैत्रस्य गृहाभावमवसाय तदन्यथाऽनुपपत्त्या बहिर्भावकल्पना-इति ॥ ननु कार्यदर्शनादर्शनाभ्यां शक्तेरनुमेयत्वसंभवे कथमनुमानाविषयत्वम् ? इत्यत्राह-अन्वयेति। अयमर्थः-अन्वयव्यतिरेकदर्शनं च न शक्ति कार्ययोः संभवति। किन्तु द्रन्यस्वरूपकार्ययोरेव । न हि वह्निशक्तिसत्वे दाहः, तदभावे तदभाव: इति वक्तुं शक्यते ; शक्तेरतीन्द्रियत्वात्। अतश्च यथा प्रत्यक्षेण न शक्तिसिद्धि' तथाऽनुमानेनापि ; किन्वर्थापत्त्यैवेति । अत्रशक्तिसिद्धौ॥ 'अभिधानप्रसिद्धयर्थमर्थापत्त्यावबोधितात् । शब्दे बोधकसामर्थ्यात तन्नित्यत्वप्रकल्पनम्' इति वार्तिकमनुसन्दधन्नाह - अर्थापत्तीति। तदन्यथानुपपत्त्या-वाचकत्वशक्तिमत्त्वान्यथाऽनुपपत्त्या । शब्देऽनित्ये तन्नाशे शक्तरपि नाशात् कालान्तरे तत्पदात् शाब्दबोधानुपपत्तिरित्यादिकं शब्दनित्यत्वाधिकरणेऽभिधास्यत - इति वार्तिकोक्तं स्वयमप्यनुसरन् माह-सा चेयमिति॥ भाष्यकारेण - शबरस्वामिना ॥ 1 गत-क. ' त्वात्-क. का-क. 'परीक्षः-क.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy