________________
आह्निकम् १] अर्थापत्तरतिरिक्तप्रमाणत्वम्
95 [श्रुतार्थापत्तेः वैलक्षण्यम् ] दृष्टवचनेनोपलब्धिवाचिना गतार्थत्वेऽपि श्रुतार्थापत्तेः 'पृथगभिधानं प्रमाणैकदेशविषयत्वेन प्रमेयविषयार्थापत्तिपञ्चकविलक्षणत्वात् ॥
[प्रमाणषट्कपूर्विकाः षडापत्तयः] ___ तत्र प्रत्यक्षपूर्विका तावदर्शपत्तिः-प्रत्यक्षावगतदहनसंसर्गोद्गतदाहाख्यकार्यान्यथाऽनुपपत्त्या वढेर्दाहशक्तिकल्पना ॥
अनुमानपूर्विका--देशान्तरप्राप्तिलिङ्गानुमितमरीचिमालिगत्यन्यथाऽनुपपत्त्या तस्य गमनशक्तिकल्पना ।।। ___ उपमानपूर्विका--उपमानज्ञानावगत गोरिण्डादिसारूप्यविशिष्ट गवयादिप्रमेयाऽन्यथाऽनुपपत्त्या तस्य तज्ज्ञानग्राह्यत्व'शक्तिकल्पना' इति॥
_ ननु दृष्ट इत्यत्र दर्शनपदं न प्रत्यक्षमात्रपरम् , अनुमानादिपरत्वस्यानुपदमेव वर्णितत्वात् ; किन्तु प्रमाणसामान्यपरम् । एवञ्च शब्दस्यापि तेनैव गतार्थत्वात् दृष्टः श्रुतो वा इति विभागः किं निबन्धन इत्याशङ्कय समाधत्तेदृष्टेति । प्रमाणकदेशविषयत्वेनेति । इतरत्र अर्थकल्पनम्, अत्र तु प्रमाणस्य शब्दस्य कल्पनमित्यर्थः । स्पष्टीकरिष्यते चेदमुपरिष्टात् ॥
'तत्र प्रत्यक्षतो ज्ञाताहाहाहहनशक्तता। वह्नेः-' इति श्लोक वार्तिकोक्तं मनसि कृत्वाऽऽह - प्रत्यक्षावगतेति । अस्य दाहाख्यकार्ये अन्वयः। अत एवास्याः प्रत्यक्षपूर्वकत्वम् ॥
'.. अनुमितात् सूर्ये यानात तच्छक्तियोग्यता' इत्युक्तं स्मृत्वाऽऽह --- देशान्तरेति । देशान्तरप्राप्तिरूपात् लिङ्गात् अनुमिता या मरीचिमाले:सूर्यस्य गति:, तदन्यथानुपपत्त्येत्यन्वयः। तस्य-सूर्यस्य । - 'गवयोपमिताया गोः तज्ज्ञानग्राह्यता मता' (श्लो-वा-अर्था.) इत्युक्त स्मरमाह-उपमाने ति। उपमानज्ञानावगतं यत् गोपिण्डसारूप्यं, तद्विशिष्टगवयेत्यन्वयः । तस्य-गवयस्य । तज्ज्ञानग्राह्यत्वेति । गवयपदजन्यज्ञानविषयत्वेत्यर्थः ॥ - पृथग्वि-ख. न्यगत्य-क. गवयसारूप्यविशिष्टगोपिण्डादिप्रमेयाऽ-ख. 'कल्पना-क.