________________
94
प्रमाणसंख्याविचारः
न्यायमजरी
[प्रमाणसंख्याधिक्यपरीक्षा एवं तावत् न्यूनत्वं सङ्ख्यायाः परीक्षितम्, आधिक्य मिदानीं परीक्ष्यते ॥
तत्र अर्थापत्या सह प्रत्यक्षादीनि पञ्च प्रमाणानीति 'प्राभाकरः ॥ अभावेन सह षडिति भाट्टः॥ संभवैतिह्याभ्यामष्टाविति केचित् ॥ अशक्य एव प्रमाणसङ्ख्या नियम इति सुशिक्षितचार्वाकाः ॥
[अर्थापत्तेरतिरिक्तप्रमाणत्वम् । तत्र भाट्टास्तावदित्थमर्थापत्तिमाचक्षते दृष्टः श्रुतो वाऽर्थोsन्यथा नोपपद्यत इत्यर्थान्तरकल्पना अर्थापत्तिः। दृष्ट इति--प्रत्यक्षादिभिः पञ्चभिः प्रमाणैः, श्रुत इति-कुतश्चन लौकिकाद्वैदिकाद्वा शब्दादवगतोऽर्थः। ततोऽन्यथाऽनुपपद्यमानार्थान्तरकल्पनाऽर्थापत्तिः-इत्येवं षट्प्रमाणप्रभवत्वेन षवेधाऽसौ भवति ॥
पश्चेति। तथाऽऽह शालिकनाथः प्रकरणपञ्चिकायाम् -- 'तत्र पञ्चविधं मानं प्रत्यक्षमनुमा तथा । शास्त्रं तथोपमानार्थापत्ती इति गुगेर्मतम्' इति ॥ ___ अभावः-अनुपलब्धिः । षडिति । 'प्रत्यक्षादेश्च षट्कस्य ' 'प्रमाणषटकविज्ञात: ' इत्यादि वार्तिकम् ॥
सुशक्षितेति। प्रथा च 'प्रत्यक्षमेकं चार्वाका:' इति पूर्व मुक्तं तु अशिक्षितचार्वाकविषय मिति भावः ॥
दृष्ट इत्यादि-'यद्यपि दृष्टः श्रुतो वा' इत्यादिः भाष्ये दृश्यते । भाष्य च भाट्टा भाकरसाधारणम् । अतः ‘भाः' इत्युल्लेख : न युज्यत इव । अथापि भट्टानुय यिमिः पार्थसारथिमित्रै: विरचितायां शास्त्रदीपिकायां भाष्यानुपूर्वीतौल्यदर्शन त् एतत्प्रकरणे शक्ति निराकरणरंभस्य दर्शनाञ्च पार्थसारथ्यादि. मतमेवात्र दूषितमिति प्रतिभाति । अतएव 'भाट्टाः' इत्युक्तं, न तु 'भट्टः' इति । गुरुमतं तु प्रत्येकं विचार्यते । नोपपद्यत इति । इतिशब्दः हेतुवचनः । दृष्टः श्रुतो वा इत्युक्तं विवृणोति---दृष्ट इति । ततः-श्रुतात् अर्थात् । भस्य कल्पना' इत्यत्रान्वयः। षट्प्रमाणेति-प्रत्यक्षानुमानोपमानशब्दार्थापत्यनुपलब्धिरूपेति शेषः ॥
प्रभाकरः-स्त्र. 'मानाद-ख.