________________
03
आह्निकम् १]
प्रमाणसंप्लवव्यवस्थे [प्रत्यक्षादीनां विषयवैलक्षण्येऽपि संप्लवोऽप्यस्त्येव] कथं तर्हि तेषां संप्लवः ? सर्वत्र विषय भेदस्य दर्शितत्वात्सत्यम्-धर्म्यभिप्रायेण संप्लवः कथ्यते । इमो तु पक्षी प्रत्यक्षलक्षणे विस्तरशो विचारयिष्यते। सर्वथा तावदस्ति प्रमाणानां संप्लव इति सिद्धम् ॥
... [भाष्योक्तप्रमाणसंप्लवोदाहरणम् तदुदाहरणं तु भाष्यकार: प्रदर्शितवान्–'अग्निराप्तोपदेशात् प्रतीयते, अमुत्रेति ; प्रत्यासीदता धूमदर्शनेनानु'मीयते ; प्रत्यासन्नतरेण उपलभ्यते' इत्यादि ॥
. [भाष्योक्तप्रमाणव्यवस्थोदाहरणम् ] क्वचित्तु . व्यवस्था दृश्यते-यथा “अग्निहोत्रं जुहुयात् स्वर्गकामः' इत्यस्मदादेगिमादेव ज्ञानं, न प्रत्यक्षानुमानाभ्याम् । स्तनयित्नुशब्दश्रवणात् तद्धेतुपरिज्ञानमनुमानादेव, न प्रत्यक्षागमाभ्याम् । 'स्वहस्तादौ प्रत्यक्षादेव प्रतीतिः, न शब्दानुमानाभ्याम्" इति । तस्मात् स्थितमेतत्-प्रायेण प्रमाणानि प्रमेयमभिसंप्लवन्ते, कचित्तु प्रमेये व्यवतिष्ठन्तेऽपीति ||
.[प्रमाणसंप्लवोपसंहारः] इत्युद्धताखिलपगेदितदोषजात. संपातभीतिरिह संप्लव एष सिद्धः । सर्वाश्च सौगतमनम्सु विरप्ररूढाः
भग्नाः प्रमाणविषयद्वयसिद्धिवाञ्छाः ॥ १०७॥ उक्तत्मात्, इति शङ्कते कथमिति। धर्म्यभिप्रायेणेति। धर्मभेदेन विषयव्यवस्थायामपि तत्तत् माणगम्यधर्मविशिष्टधर्मिणः सर्वत्रानुगतत्वादस्त्येव संप्लव इत्यर्थः । इमो पक्षौ–केचित्पक्षः, अन्ये तु पक्षश्च ॥ - अग्निरित्याद्यर्थानुवादमात्रम् ॥ व्यवतिष्ठन्त इति गन्धादी विषये द्रष्टव्यम् , घ्राणैकग्राह्यत्वात् गन्धस्य॥
संपात:--'धारा संपात आसारः'। इह-अस्मिन् सहर्शने । प्रमाणेति । प्रत्यक्षानुमानरूपप्रमाणद्वय-स्वलक्षणसामान्यरूपविषयद्वयसिद्धी वाम्छा येषां ते तथा ॥
1 तेषां-क. विचारयिष्येते-ख. मिमी-ख. स्वहस्तौ द्वौइतित-ख