SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ 92 प्रमाणसंख्याविचार: न्यायमरी [समानविषयत्वेऽपि शब्दलिङ्गयो: विलक्षणप्रतीतिजनकत्वम् ] यदपि प्रत्यक्षस्य शब्द लिङ्गयोश्च समानविषयत्वे सति सदृशप्रतीतिजनकत्वमाशङ्कितम्-तत्र केचिदाचक्षते-विषयसाम्येऽप्युपायभेदात् प्रतीतिभेदो भवत्येव ; दूराविदूरदेशव्यवस्थित पदार्थप्रतीतिवत् ॥ ___ अन्ये तु मन्यन्ते-नोपायभेदात् प्रतीतिभेदो भवति, अपि तु विषयभेदादेव। सन्निकृष्टविप्रकृष्टग्रहणेऽपि विषयौ भिद्यते । दुरात् सामान्यधर्ममात्रवि शिष्टस्य धर्मिणो ग्रहणम् : अदूरात्तु सकल'तद्तविशेष'साक्षात्करणम्। 'दिमाः प्रत्यक्षानुमानशब्द. प्रमितयः प्र'मेय भेदात् भिद्यन्ते ॥ विशेषधर्मसंवद्धं वस्तु स्पेशति नेत्रधीः। व्याप्तबोधानुसारेण तन्मात्रं तु लैङ्गिकी । १०५॥ . शब्दात् तत्तदवच्छिन्ना' वाच्ये सञ्जायते मतिः । शब्दानुवेधशून्या हि न शब्दार्थे मतिभवेत् ॥ १०६॥ ___ 'समान विषयत्वे च जायते सदृशी मति:' इत्युक्तं प्रतिसमाधत्तेयदपीति । उपायभदात् इन्द्रिय-व्याप्तिज्ञान-सादृश्यज्ञान-शब्दरूपोपायभेदादित्यर्थ ॥ ननु एकस्यैव सतः वातुन: कथं सन्निकर्षविप्रकर्षभेदात् भेदः इत्यत्राह-- दूरादिति। सकलोत । योग्यसकलेत्यर्थः ॥ प्रत्यक्षानुमानादीनां विविच्य विषयान् दर्शयति ---विशेषेति । तद्वन्मात्रं - व्याप्त्यवगतधर्ममात्र विशिष्टधर्मिण लैङ्गिकी मति. स्पृशतीत्य वयः । तत्तदच्छिन्ना - तत्तद्वाचकशब्दावच्छिन्न।। शब्देनार्थोपस्थितिवेलायां तत्तदर्थस्य तत्तच्छब्दवाच्यतयोपस्थितिरिति भावः। एतदेवोपपादयति -- शब्देति । शब्दार्थ-शब्दोपस्थापितेऽर्थे ॥ ननु द्वितीयेऽस्मिन् पक्षे कथं संप्लवः ? प्रत्यक्षादीनां विषयव्यवस्थाया । विशेष-ख. य-ख. ' तीति-क. ' वदवच्छिन्ना-ख.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy