________________
आह्निकम् १]
प्रमाणसंप्लव साधनम्
क्षणभङ्गं निषेत्स्यामः सन्तानो यश्च कल्पितः । दर्शितप्राप्तिसियादौ संप्लवेऽपि स तादृशः ॥ १०३ ॥
91
[जात्यवयविप्रभृतीनां स्थिराणां सत्वात्ममाणसंलत्रः दुर्वारः ] यदपि जात्यादिविषयनिषे 'घ' मनोरथैः संप्लवपराकरणमध्यवसितं - तत्र जात्यादिसमर्थन मेवोत्तरी करिष्यति । तावकैर्दूषणगणैः कालुष्यम पनीयते ।
तद्वानवयवी जातिरिति वार्तै' व' भद्रिका ॥ १०४ ॥
[गृहीतग्राहित्वेऽपि नाप्रामाण्यम् ]
यदपि विरोधवैफल्याभ्यां न संप्लव इत्युक्तं -- तत्र वैफल्यं, अनधिगतार्थ गन्तृत्व विशेषणनिवारणेनैव प्रतिसमाहितम् । विरोधोऽपि नास्ति ; पूर्वज्ञानोपम'दैन' 'नेदं रजतम्' इतिवत् उत्तरविज्ञानानुत्पादात् । अनेकधर्मविसरविशेषितवपुषि धर्मिणि कदाचित् केनचित् कश्चिन्निश्चीयते धर्मविशेष इति को विरोधार्थः ?
पर्वतं गच्छन् तमेव वह्निं प्रत्यक्षीकरोति । एवं जलान्तस्थः स्फटिकः परोक्षः स एव बहिःस्थः प्रत्यक्ष, इति । ननु वस्तुनः प्रतिक्षणं भङ्गात् अनुमानविषय: अन्यः, अन्य एव च प्रत्यक्षस्येति कथं देशकालादिभेदेन संप्लवः ? इत्यत्राह - क्षणभङ्गमिति । किञ्च दर्शितप्राप्तिसिद्धीनां निर्वाहाय यदा सन्तानः कल्पितः, - तदा तेनैव प्रमाण संप्लवः सिद्ध इत्याह- सन्तान इति ॥
'अवयवी जातिरिति वार्तैकभद्रिका' इत्युक्तं निराकरोति - यदपीति । तद्वान्- नानाप्रमाणगम्यत्वेनापनीतदोषः । अवयवी जातिश्चेति वार्ता साधीयस्येवेत्यर्थः ॥
प्रतिसमाहितमिति ।
अनधिगतार्थगन्तृत्वस्य प्रमाणलक्षणत्वे हि
तच लक्षणं नास्माक
,
एकेन प्रमाणेनावगते प्रमाणान्तरप्रवृत्तिर्विफलेति दोषः मिति न दोष इति भावः । उपमर्दः - बाधः । विसरः – समुदायः । अनेकधर्मविशिष्टो हि धर्मी । स च कदाचिदेकाकारेण, कदाचिच्चाकारान्तरेण गृह्यत इति न विरोध इत्यर्थः ॥
1 धन- ख. क-ख. 3 दें-क.