________________
90
प्रमाणसंख्याविचार:
[अनुमाने प्रमाणसंप्लवः सर्वथा दुर्वार: ]
यथा च सामान्यविषये प्रत्यक्षाभ्युपगममन्तरेण सम्बन्धग्रहण - मरमानमिति विसंष्टुलमनुमानं, एवं अवगतसम्बन्धस्य द्वितीयलिङ्गदर्शनमपि दुरुपपादमिति ततोऽपि संप्लवापलाविनामनुमानमुत्सीदेत् ॥
न ह्यसाधारणांशस्य लिङ्गत्वमुपपद्यते । विना न चानुमानेन सामान्यमवगम्यते ॥ ९९॥
[ न्यायमश्वरी
सैवावस्था तत्रापि स एवान्योऽन्यसंश्रयः । स एव च विकल्पानां सामर्थ्यशमनक्रमः ॥ १०० ॥ अतः सम्बन्ध विज्ञानलिङ्गग्रहणपूर्वकम् । अनुमानमनिहत्य कथं संप्लवनिह्नवः ॥ १०१ ॥
[विषयद्वैविध्याङ्गीकारेऽपि प्रमाण संप्लवः दुर्वारः ]
अपि च विषय द्वैविध्यसिद्धावपि प्रत्यक्षानुमाने एव परस्परमपि संप्लवेयाताम् । यतः -,
प्रत्यक्षत्वं परोक्षोऽपि प्रत्यक्षोऽपि परोक्षताम् । देशकालादिभेदेन विषयः प्रतिपद्यते ॥ १०२ ॥
द्वितीयेति । महानसादौ व्याप्तिग्रहणकाले प्रथमं लिङ्गदर्शनम् । ततः पर्वतादौ तादृशव्याप्तिविशिष्टधूमदर्शनं द्वितीयमावश्यकम् । व्याप्तिरूपप्रकार शून्यो हि केवलधूमः न बहिमनुमापयेत् । अतश्च पुनरपि प्रमाणसंप्लवो दुर्वार इति भावः ॥
6
एतदेवोपपादयति--न ह्यसाधारणेत्यादि । असाधारणांश:स्वलक्षणमात्रम् । सामान्यं -- व्याप्यत्वादिरूपम् । न हि महानसदृष्ट एव धूमः पर्वते वयनुमितिहेतुर्भवितुमलमिति यावत् । सेवेत्यादि । नावज्ञातसम्बन्धं' इत्यादिनाऽभिहिता इत्यर्थः । अतश्चानुमानमामाण्यवादिनां प्राणवर्जनीय इत्युपसंदरति- -अत इति । सम्बन्धविज्ञानलिङ्ग. ग्रहगेति द्वंद्वः । अधिकं पूर्वभेव निरूपितम् । अनिहृत्य - अङ्गीकृत्येति यावत् ॥ प्रत्यक्षत्वमित्यादि । परोक्षोऽपि विषयः प्रत्यक्षत्वं प्रत्यक्षोऽपि विषयः परोक्षतां देशकालादिभेदेन प्रतिपद्यते । दूरात् धूमेन वह्निमनुमाय