________________
89
आह्निकम् १]
प्रमाणसंप्लवसाधनम् वस्तुम्वभावं भवेत् । तस्माद्वस्तुधर्मः प्रतिबन्धः । विकल्पैश्च वस्तु न स्पृश्यते, तत्प्रतिबन्धश्च निश्चीयत इति चित्रम् ॥ - इदं च 'सु'भाषितम् ! वस्तुनोः प्रतिबन्धः तादात्म्यादि:, गम्यगमकत्वं च विकल्पारोपितयोरपोहयो; तदेवं अन्यत्र प्रतिबन्धः अन्यत्र तद्हणोपायः ; 'अन्यत्र प्रतीतिः, अन्यत्र' प्रवृत्तिप्राप्ती इति सर्व केतवम्। न च दृश्यसंस्पर्शशून्यात्मनां विकल्पानां दर्शनच्छाया काचन संभवति । इदन्तान हित्व'संस्पष्टत्वाद्यपि वस्तुसंस्पर्शरहितम किश्चित्करं अप्रमाणत्वानपायात् ॥
अप्रमाणपरिच्छिन्नः प्रतिबन्धश्च, तत्वतः । न परिच्छिन्न एवेति ततो मिथ्याऽनुमेयधीः ॥ ९७ ॥ ' अथाभिमतमेवेदं बुद्धयारूढत्ववर्णनात् । हन्तं ! तात्त्विकसंबन्धसाधनव्यसनेन किम् ? ॥ ९८
. उक्तमर्थ सोपालम्भं प्रकटयनि-इदं ति। इदमिति किम् ? इत्यत्राई -वस्तुनोनित्यादि। अपोहयोरिति। विकल्पो हि सामान्यविषयकः, सामान्यं चापोहरूपमित्यत एवमुक्तम् । अन्यत्र प्रतिवन्धःवस्तुनोतिः। अन्यत्र तद्हणोपायः - अवस्तुनो अपोहयोर्गन्यगमकभावः। अन्यत्र प्रतीतिः- अवस्तुविषयः विकल्पः । अन्यत्र प्रवृत्तिप्राप्ती-अवस्तु(सामान्य )विषयिणी प्रवृत्तिः । प्रतिस्तु वस्तु. विषयिणीति। विकल्पानां दर्शनच्छायानुरञ्जनात् दर्शनपदवाच्यत्वमित्यशं दूषयति-न चेति। जपाकुसुमादिहि स्वसंबद्ध एव स्फटिके लौहित्यमापादयति। विकल्पानां तु दर्श-विषयवस्तुसम्बन्ध एव नास्ति । यदि स्यात् तदा प्रमाणसंप्लवो जागरूकः । एवञ्च विन्ध्यहिमाचलयोरिव सर्वथा संम्बन्धशून्ययोः कथं छायानुवृतिरिति । ननु विकल्पे प्रकारभानेऽपि निर्विकल्पविषयस्य विशेष्यस्यापि भानात्-अस्त दर्शनच्छायापत्तिर्विकल्पस्येत्यत्राहइदन्तति। इदन्ताया. विकले कलुषितत्वेन वस्तुरूपत्वं नास्त्यवेत्यर्थः ॥
भन्तत: अनुमानोपपादनमेव न शक्यमित्युपसंहरति-अप्रमाणेति ॥
'म-ख.
नः-क.
दि-ख. 'अन्यत्र-ग.
स्प-खं.
त-क.