________________
९१२
काव्यमाला ।
द्वदः अपटुरस्पष्टाक्षरमुपविष्टकष्ठपीठं वा यत्र तादृक् ध्वनितं शब्दो यस्य तादृशः सन्निदम वक्ष्यमाणमजीगदद्वदति स्म ॥
उच्छिन्नः सुरभूरुहोऽप्यपगता स्वर्धामधेनुः पुन
भग्नः कामघटो मणिः सुमनसां चूर्णीबभूव क्षणात् ।
दग्धा चित्रलता गतः शकलतां हा दक्षिणावर्तभृ
त्कम्बुः स्वर्गिगृहं गते त्वयि गुरौ श्रीहीरसूरीश्वर ॥ २०३ ॥
1
हे श्रिया गणलक्ष्म्या शोभया वा युक्त हीरविजयसूरीश्वरगुरो, त्वयि श्रीमति स्वगिणां देवानां गृहं गते देवलोकं प्राप्ते सति अत्र जगति सुरभूरुह उच्छिन्न उच्छेदं प्राप्तः पुनर्न भविता । हा इति खेदे । सर्वत्र योज्यम् । अपि पुनः स्वर्धामानो देवास्तेषां धेनुः गौः । कामधेनुरित्यर्थः । अपगता मृता । 'व्यापन्नोऽपगतो मृत:' इति हैम्याम् हा इति खेदे । कामघटः कामकुम्भो भगः विक्रीभूतः । पुनही दक्षिणदेशे आवर्त वलयाकार विभर्तीति तादृशः कम्बुः दक्षिणावर्तशङ्खः शकलतां खण्डभावं गतः प्राप्तवान् ॥
हा हा भूधनबोधनैकविबुध श्रीसूरिचूडामणे
हा सिद्धान्तसमुद्रमन्दरगिरे हा शासनाहर्मणे । हा हा यौक्तिकवाक्पुरंदरगुरो वैराग्यवारांनिधे
हा कारुण्यनिधे विधेर्वशतया त्वं कुत्र यातः प्रभो ॥ २०४ ॥ हा हा इति पुनः पुनः खेदवाक्ये । यथा नाचराजकविकृतायां भोजमुख राजादिप्रतिमान पुरो दुःखोद्गारतुतौ 'हा हा हालनितान्तकान्तकवितालंकार हा मा... · क्षोणीनायकमुजपुञ्जयशसां हा भोज भूवल्लभ' इत्यादि । हे भूधनस्य राज्ञः मुद्गलपातिसाहेरकब्बरस्य प्रतिबोधविधाने एकविबुध अद्वैतनैपुण्यवान् । तथा श्रिया ज्ञानवैराग्यप्रतिरूपादिलक्ष्मीकलिता ये सूरयो भट्टारकास्तेषां चूडामणे । हा इति दुःखबाहुल्यात्पुनह शब्दोवारणम् । हे सिद्धान्तः समग्रजैनागमः स एव दुरवगाहत्वाद्बहुत्वाच्च समुद्रस्तस्यावगाहने मध्यप्रवेश नागाधतापरिच्छेदपरिच्छेद रहस्यामृत ग्रहणे मन्दरगिरे । पुनर्हा शासनं जैनदर्शनं तत्राहर्मणे सहस्रकिरण । पुनह इत्यनन्यसामान्यदुःखशोके । यौक्तिका सम्यक्सिद्धान्तानुगतकुमत निराकरणादियुक्त्या उपेता । अथ वा परकृतपूर्वपक्षनिराकरणकप्रगल्भा या सिद्धान्तरूपा सिद्धान्त उत्तरपक्षः प्रतिपक्षकृतपूर्वपक्षनिरुत्तरीकरणं संदेहनिराकरणं च । यथा 'अनुरूपमिदं निरूपयन्नथ सर्वेष्वपि पूर्वपक्षताम् । युवसु व्यपनेतुमक्षमस्त्वयि सिद्धान्तधियं न्यवेशयम् ॥' इति नैषधे । यौक्तिका चासौ वाक् तत्र पुरंदर वाचस्पते । पाठान्तरे सैद्धान्तिकवाक् इति । तथा वैराग्यं संसारविरक्तताया वारांनिधे समुद्र । हा इति शोचने । कारुण्यस्य कृपाया निधे निधान । एतानि सर्वा