________________
१७ सर्गः] हीरसौभाग्यम् । कृष्णमुखान्निर्माय । क इव । पूषेव । यथा भानुमान् काकद्विषां कौशिकानां श्यामानि वकाणि कुरुते ॥ इति वादे विजयसेनसूरिविजयः ॥
तस्य स्फुरन्मानमकब्बरेण प्रीत्या स्फुरन्मानमिवार्पयित्वा । . स बन्धुवत्स्वीयजनैरुपेतः संप्रेषितो हीरगुरोः समीपे ॥ २०० ॥
स विजयसेनसूरिः बन्धुवत् भ्रातेव खीयजनैरात्मीयमनुजैरुपेतः सहितः सन् गुरोः स्वर्गगमनात्प्राक्समये हीरगुरोः समीपे संप्रेषितः पातिसाहिना प्रहितः । किं कृत्वा । प्रस्थापितः स्फुरद्दीप्यमानं जगच्चेतश्चमत्कारकारि मानं संमान मिव स्फुरन्मानम् महिषीमहिषगोवृषभा एते चत्वारोऽपि कदापि केनापि न हन्तव्याः तथा केनापि मदाज्ञावशवतिनां मत्सेवकेन जना बन्दीकर्तव्या न नैवावश्यम् इति खहस्तमुद्राङ्कितलेखमर्पयित्वा । कस्य । तस्य विजयसेनसूरेः । कया। प्रीया स्नेहेन प्रमोदेन वा ॥ इति साहिना विजयसेनसूरेर्गुरुसमीपे प्रेषणम् ॥
सोऽप्याकर्णितहीरसूरिमघवाङ्गापाटवः संचर
न्यावद्गुर्जरदेशलक्ष्मितिलकं संप्राप्तवान्पत्तनम् । संतप्तत्रपुराशिसिञ्चनमिव श्रुत्योरशर्मावहं
स्वर्लोकोपगमं गुरोर्गणधरस्तावत्समाकर्णयत् ॥ २०१॥ सोऽपि विजयसेनसूरिरपि तावद्गुरोः हीरसूरेः खलोकोपगमं देवलोके पादावधारणं समाकर्णयत् सम्यक् सत्यत्वेन श्रुतवान् । स किंभूतः । गणधरो गुरावुपरते स एव गच्छधारकः । किम् । श्रुत्योः श्रवणयोर्वहुजनस्य मिथ्यादृशामपि अशर्मावहं दुःखविधाय'कम् । किमिव । संतप्तानामुष्णीकृतानां रसीभूतानां च त्रपुणां राशिर्बजस्तस्य सिञ्चनं निर्भरतया मध्येऽभिषेचनमिव । तावत्किम् । यावत्सोऽपि सूरिरपि आकर्णितं लोकप्रवृत्तिपरम्परया लेखोदन्तावगमनेन श्रुतं हीरसूरिमघोनः श्रीहीरविजयसूरीन्द्रस्याङ्गे शरीरे अपाटवं रोगादिभिरपटुतामसमाधियेन । अत एव संचरननवच्छिन्नप्रयाणैश्चतुर्मासकम• ध्येऽपि त्वरिततरं पथि प्रतिष्ठमानः प्रचलन् सन् गुर्जरदेशस्य तिलके लक्ष्मितिलको. ‘पमानं पत्तनमणहिल्लपाटकपुटभेदनं यावता कालेन यस्मिन् समये वा संप्राप्तवान् । यावता पत्तने समेत इत्यर्थः ॥
श्रुत्वा तद्वजाहत इवाभवद्वाष्पपूर्णनयनयुगः ।
एष पुनर्दुःखादिदमजीगदद्गद्गदध्वनितः ॥ २०२ ॥ एषः विजयसेनसूरिः तद्गुरोः खर्लोकगमनं श्रुत्वाकर्ण्य बाष्पैरश्रुजलैः पूर्ण निर्भर भृतं नयनयुगं लोचनद्वन्द्वं यस्य तादृशः सन् वज्रेण पुरंदरदम्भोलिना उरसि वक्षसि वा आहतस्ताडित इवाभवत्संजातः । पुनः श्रवणानन्तरमेष सूरिः दुःखादसातोदयाद्ग