________________
१७ सर्गः] हीरसौभाग्यम् ।
९.५ परिचर्याभिः । क्षितिजलपवनहुताशनयजमानाकाशसोमसूर्याद्या । अष्टौ शिवमूर्तयः' इति वचनात् वहिसेवाभिरमिमध्ये प्रवेशः प्रणिहन्तुकामः किमु निवारयितुमिच्छुरिव ॥
दिवं गतस्यापि विभोरमुष्य श्लोकस्त्रिलोक्यामपि पोस्फुरीति । विवक्षयेतीव पुरो नराणामागात्रिसेरीपमितः सितामः ॥ १८२॥
प्रयाणां सेराणां समाहारबिसेरी तया प्रमितः प्रमाणीकृतः सेरत्रयमानः सितात्रः कर्पूरः समागात् । उत्प्रेक्ष्यते-नराणां समग्रजनानां पुरोऽप्रे इति विवक्षया वक्तु मिच्छयेव । इति किम् । दिवं गतस्यापि वर्ग यातस्यापि अमुष्य विभोः गुरोः श्लोको यशत्रिलोक्यामपि पोस्फुरीति जगत्रयेऽपि स्फूर्तिमियति इति हेतोस्त्रिसेरीमितः ॥ इति संस्कारोपस्करमेलनमानयनं च ॥ .
ज्योतिःकुमारा इव तीर्थमर्तुः प्रज्वाल्य पूर्व ज्वलनं चितायाम् । सूरेः शरीरस्य शरीरिणस्ते संस्कारमातन्वत चन्दनायैः ॥ १८३ ॥ ते शरीरिणः श्राद्धजनाः सूरेः शरीरस्य चन्दनायः श्रीखण्डागुरुचूआककर्पूरकस्तूरिकाभिः कृत्वा संस्कार वहिना संस्करणं भस्मसाद्विधानमातन्वत चक्रुः । किं कृत्वा । पूर्व प्रथमं चितायां ज्वलनमग्निं प्रज्वाल्य संधूष्योद्दीप्य वा । क इव । ज्योति:कुमारा इव । यथा अग्निकुमारास्तीर्थमर्तुश्चितायां पुरं प्रदत्तादेशा नयननि:पतदहल. बाष्पप्नवाः पूर्वज्वलनं प्रज्वालयन्ति ।
सप्तसहस्राः सर्वाः संभूय ल्यारिका इह व्ययिताः।
सप्तापि दुर्गतीरिव निषेद्धमेतैः समुत्युकितैः ॥ १८४ ॥ तैः श्राद्धैः पूजादीनां वस्त्रादीनां सर्वाः समस्ता अपि संभूय मेलयित्वा इह सूरिशरीरसंस्कारसमये सप्तसहस्रप्रमाणा ल्यारिका व्ययिता व्ययीकृताः । उत्प्रेक्ष्यतेसप्तसंख्या अपि दुर्गती: नरकाग्निषेधुं निवारयितुं समुत्सुकितैरुत्कण्ठितैरिव ॥इति सू. रिशरीरसंस्कारकरणम् ॥ . चैत्ये श्रीफलतन्दुलाञ्जिनपुरस्ते ढौकयित्वा ततः
संस्तुत्य प्रणिपत्य भक्तिभरिता जग्मुर्गृहानात्मनाम् । गीर्वाणा इव वासवप्रभृतयो नन्दीश्वरेऽष्टाहिकां
निर्मायानुसमेतयौवतयुता निर्वाणकल्याणके ॥ १८५ ॥ ते समस्ता अपि संस्कार कारिणः उपलक्षणात्परेऽपि द्वीपोग्नतादिनगरभावकास्ततः संस्कारकरणानन्तरं चैत्ये जिनप्रासादे श्रीजिनपुरस्तीर्थकृत्प्रतिमानां पुरस्तात् श्रीफलानि नालिकेराणि तथा तन्दुलाश्चोक्षा उपलक्षणादपरगोधूमयुगंधरीप्रमुखधान्यश्रेणी ढोकयित्वा ततस्तदनन्तरं च संस्तुत्याप्टस्तुतिभिर्देववन्दनां विधाय मध्ये अजितशान्ति