________________
९०४
काव्यमाला । व्यालानुषङ्गवशतो वसतेर्वनान्ते
पुष्पश्रिया फलभरैरपि वन्ध्यभावात् । आगान्मुमूर्षुरतिदुःखगणेन गन्ध
सारः किमत्र तिथिसंख्यमणप्रमाणः ॥ १७९ ॥ अत्र संस्कारभूमौ तिथीनां पञ्चदशकर्मवादिनां संख्या मानं येषां तादृशानां चत्वारिंशत्सेरप्रमाणानां मणानां मानविशेषाणां प्रमाणं यस्य । पञ्चदशमणा इत्यर्थः । गन्धसारश्चन्दन आगात् । उत्प्रेक्ष्यते-अतिदुःखगणेन अत्यभ्यधिकानां हृदरंतुदानां दुःखानामसाताना गणेन भरेण कृत्वा मुमूर्षुर्मर्तुमिच्छुरिव । दुःखं कुतः । व्यालानां दुष्टद्विजिह्वानामनुषङ्गस्य सर्वदा सगस्य वशत आयतत्वात् । पुनः कस्य । वनानामन्ते काननाना प्रान्ते मध्ये वा वसतेर्निवासात् च । अपि पुनः पुष्पधिया कुसुमलक्ष्म्या अथ च पुष्पवशदिक्ष वि. कसन्त्या व्यापारव्यवहारैः सर्वत्र जनस्थलदेशेषु विस्तृतया इन्दिरया समृद्धया । अपि पुनः फलानां सस्यानां पुत्रपौत्रादीनां भरैरिकाप्राप्तयादववंशवगृन्दैर्वन्ध्यभावान्मो घत्वात् । 'यद्यपि चन्दनविटपी विधिना फलपुष्पवर्जिलो विहितः । निजवपुषैव परेषां तथापि संतापमपनयति ॥' इति सूक्तवचनात् । इत्यादिकारणात्संजातमुमूर्षा ॥
घृतमिव पितृनिधनभवोऽगुरुद्रवस्तत्र पञ्चसेरमितः । . सुहृदिव सस्नेहोऽगुरुरप्यानीतो मणत्रितयः ॥ १८० ॥ तत्र संस्कारोपस्करे संस्कारभूमौ वा अगुरुद्रवः 'चूओ' इति प्रसिद्धनामा पञ्चभिः सेरर्मितः प्रमाणीकृतः पञ्चसेर आनीतः । किंभूतः । पितुर्गुरोनिधनात् मरणात् निदाघाद्भव उत्पत्तिर्यस्य । किमिव । घृतमिव । यथा आज्यं पितुर्दभ्नो मथनानाशात् अथ वा म्रक्षणस्य विनाशात्तापनगालनात्संजातम् , तथा चूआकोऽपि तातस्य कृष्णागुरोर्गालादुत्पन्नः । अपि पुनः सुहृदिव सखेव सह स्नेहेन प्रेम्णा चूआनामतैलद्रवेण च युक्तः कलितः । मणानां त्रितयं त्रिकं यस्य तादृशोऽगुरुः काकतुण्डः समानीतः ।।
श्यामत्वमात्मपितृघातजपातकं च
गौरीशविग्रहहुताशनसेवनाभिः । सारङ्गनाभिनिवहः प्रणिहन्तुकाम
स्तत्राजगाम किमु सेरयुगप्रमाणः ॥ १८१ ॥ सारङ्गनाभिनिवहः कस्तूरीप्रकर: सेरयोयुगं द्वन्द्वं प्रमाणं यस्य स सेरयुगप्रमाणः . तत्रोपस्करे संस्कारभूमौ वा आजगाम आगच्छति स्म । उत्प्रेक्ष्यते-दयामत्वमात्मकालिमानं च पुनः पितुः कस्तूरिकामृगस्य घातान्मारणाज्जातमुत्पन्नं पातकं दुःकृतं गौरीशस्य पार्वतीभर्तुः शिवस्य विग्रहः शरीरं यो हुताशनः कृशानुम्तस्य सेवनाभिभक्तिभिः