________________
१७ सर्गः] हीरसौभाग्यम् ।
८९७ पुनरत्र भुवने अहं कस्यापि न स्यां भवेयम् । अहं कस्यापि नास्मीयर्थः । क इव । वृत्रशत्रुरिव । यथा धरित्र्या भूमेः शक्रो राजा कस्यापि न स्यान भवेत् । काके शौक्ल्यं द्यूतकारेषु सत्यं सर्प क्षान्तिः स्त्रीषु कामोपशान्तिः । क्लीबे धेर्न मद्यपे तत्त्वचिन्ता राजा मित्रं केन दृष्टं श्रुतं वा ॥ इति वचनात् ॥
भवेन्मदीयेन्द्रियमन्दिरस्य यदि प्रमादोऽवसरेऽत्र दैवात् । त्रिधापि देहादिममात्मनाहं परिग्रहं बाह्यमिव त्यजामि ॥ १५५ ॥ यदि अत्रावसरे अस्मिन् प्रखावे दैवात्कर्मयोगादायुःकर्मणस्नुटेः क्षयान्मदीयेन्द्रियमन्दिरस्य मत्संबन्धिनः शरीरस्य । 'जुहाव यन्मन्दिरमिन्द्रियाणाम्' इति नैषधे । प्रमादो नाम जीवेन समं वियोगो भवेत् । मरणं स्यादित्यर्थः । तदाहमात्मना खयमेव देहादिम कायप्रमुखनन्तरङ्गपरिग्रहं क्रोधमानमायालोभादिपरीवारोपध्यादिकं सर्वमपि विधा मनोवाकायैः कृत्वा त्रिकरणशुद्धथै त्यजामि मुश्चामिव । कमिव । बाह्यमिव । यथा बहिर्भावो बाह्यः स.चासौ परिग्रहश्च पुत्रकलत्रभ्रातृधनधान्यादिपरिग्रहः सर्वस्त्यक्तो. ऽस्ति, तथा वपुराद्यपि व्युत्सृजामीति ॥ इत्याराधनाविधानम् ॥
शमी शमीगर्भमिवैकतानमना दधानः प्रणिधानमन्तः । अर्हत्समक्षं दशमी दशम्यां व्यधाद्विधिज्ञोऽनशनं शमीशः ॥ १५६ ॥ शमिनां प्रशमवतां योगिनामीशः खामी यतिपतिर्दशम्यां तिथौ यावज्जीवं त्रिविधाहारपरित्यागरूपमनशनं व्यधाच्चकार । कथम् । अर्हत्समक्षं भगवत्प्रत्यक्षं प्रति पुरस्तात्प्र. त्याख्यानोञ्चारपूर्वम् । दशमी वर्षीवान् प्रान्तावस्थावस्थितान् । 'निशि दशमितामालिङ्गन्यां विबोधविधित्सुभिः' इति नैषधे । निशाया अवसानसमये दशमितेति पदं दृश्यते । पुनः किंभूतः । विधिज्ञः शास्त्रोकप्रकारवेत्ता प्रान्तसमये अनशनं विहितं विलोक्यते इति वा विधिः । किं कुर्वाणः । अन्तर्मनोमध्ये प्रणिधानं पञ्चपरमेष्ठिध्यानं दधानो बिभ्राणः । किंलक्षण: सन् । एकतानं लयानुगं मनो मानसं यस्य तादृशः सन् । कमिव । शमीगर्भमिव । यथा शमीद्रुमः खेजडिकाभिधानपादपः शमीगर्भ पावकमन्तर्धत्ते । 'अर्चिः शमीगर्भतमोनशुक्राः' इति हैम्यामग्निनामसु । तथा 'शमीमिवाभ्यन्तरलीनपावकाम्' इति रघौ ॥ ..' अथ सप्तभिः कुलकं प्रारभ्यते
भोक्तुं भुवं यां च समं मघोनो द्वितीयरूपादिव विक्रमार्कात् । नेत्रत्रिनेत्राननकेकियानवऋत्रियामापतिसंमितेऽन्दे ॥ १७ ॥ तत्र पञ्चमीमक्षमालां गणयितुमारभतेति संबन्धः । आदित एव काव्यानि पृथक पृथक् व्याख्यायन्ते । नेत्र द्वे चक्षुषी, त्रिनेत्रस्येश्वरस्याननानि मुखानि पञ्च । 'पञ्चमुखो. ऽष्टमूर्तिः' इति हैमीवचनात् पश्चसंख्याकानि वदनानि, तथा केकियानस्य मयूरवाहनस्य खामिकार्तिकस्य वदनानि वक्राणि षट् ।षण्मुखत्वात् । तथा त्रियामापतिश्चन्द्र एकः। एभिः पदार्थैः संमिते सम्यक्प्रमाणीकृते अब्दे वर्षे । कस्मात् । विक्रमार्कात् विक्रमादित्यनानो
११३