________________
८९८
काव्यमाला।
नृपात् । उत्प्रेक्ष्यते-मघोन इन्द्रस्य द्वितीयरूपादिव अपरशरीरादिव । किं कर्तुम् । यां देवलोकं च पुन एवं भूमण्डलं समं सार्धमेककालं भोक्तुं पालयितुं भुक्तिविषयीकर्तु वा। एतावता विक्रमार्थात् द्विपश्चाशदधिकषोडशशतप्रमाणे वर्षे संवत् १६५२ वर्षे इत्युक्तम् ॥
नभस्यमासस्य नमत्पयोदकदम्बकाडम्बरिणो नभोवत् ।। प्रभोः प्रभावादिव शुभितायां तिथौ सुरद्वेषिनिषूदनस्य ॥ १५८ ॥ . सुराणां देवानां द्वेषिणो वैरिणो दानवाः । 'असुरा दितिदनुजाः पातालौकःसुरा. रयः' इति हैम्याम् । तेषां निषूदनस्य उच्छेदकस्य हरेः । 'दैत्यारिश्च पुराणयज्ञपुरुपस्तार्क्ष्यध्वजः' इति हैम्याम् । तिथौ दिवसे एकादशीदिने । किंभूतायां तिथौ । शुभ्रितायामुब्वलीभूतायाम् । अर्थाच्चन्द्रमसश्चन्द्रिकाभिर्धवलितायाम् । तिथिशब्दः 'गुंत्रीलिङ्गे। उत्प्रेक्ष्यते-प्रभोहीरविजयसूरेः प्रभावान्महिनो माहात्म्यात् शुनितायामिव । तिथि: कस्य । नभस्यमासस्य नभस्यो भाद्रपदसंज्ञो मासस्तस्य । 'श्रावणिकोधनभस्यः प्रोष्टभाद्रपदः पदः' इति हैम्याम् । किंभूतस्य । नमन्तः पयोभरैर्नम्रीभवन्तो भूमौ लगन्तो ये पयोदा मेघास्तेषां कदम्बकानि पटलानि तेषामाडम्बरः आटोपः अस्त्यस्मिस्तस्य किंवत् । नभोवत् श्रावणमासस्येव । श्रावणभाद्रपदमासौ वर्षा ऋतुः । यथा श्रावणे तथा भाद्रपदे यथा भाद्रपदे तथा श्रावणे मेघः स्यादिति । तथा 'नभोनभस्यत्वमलम्भयदृशौ' इति नैषधे । सेवनावसरे दमयन्त्याः खदृशौ श्रावणभाद्रपदीकृते । अयं तु वर्षाऋतुत्वान्मासखभावः। एकादशी तु खभावेनोज्वला । तत्रेयमुत्प्रेक्षा । अथ वा नभोवद्गगनस्येव । यथा प्रावृट्काले नभो व्योम घनघनाघनमण्डलाडम्बरितं भवेत् ॥ एतावता भाद्रपदमाससितैकादशीतिथौ निशासमये ॥
कान्ते तमीनामुदिते मुनीन्दोस्तत्प्रक्रमे वऋदिदृक्षयेव ।। स्फुरत्सु तारेषु गुरोः पथीव यातुर्दिवं क्षिप्तसुमेषु देवैः ॥ १५९ ॥
पुनस्समीनां रात्रीणां कान्ते वल्लभे चन्द्रे उदिते सति उदयं प्राप्ते सति । उत्प्रेक्ष्यते-- तत्प्रक्रभे तस्मिन्नवसरे अनशनिनो मुनीन्दोहीरविजयसूरेर्वक्रस्य वदनस्य दिदृक्षया द्रमिच्छयेव । पुनस्तारेषु उपलक्षणाद्रहनक्षत्रतारकेषु स्फुरत्सु दीप्यमानेषु झगज्झगिति कुर्वत्सु । उत्प्रेक्ष्यते-दिवं खर्गलोकं यास्यति गमिष्यतीत्येवंशीलस्य यातुर्गुरोहोरसूरेः पथि मार्गे देवैः क्षिप्तेषु विकीर्णेषु सुमेषु पुष्पेष्विव पुष्पप्रकरेष्विव ॥ धनोपरोधनिर्मुकाहनक्षत्रतारकलितकौमुदीकान्तोदये जाते ॥
महेभ्यवत्संनिधिशालमानानाकार्य कार्यज्ञतयानगारान् । तदैहिकामुष्मिकसर्वशर्मनिर्माणदक्षाः प्रवितीर्य शिक्षाः ॥ १६० ॥
एवंविधे व्यतिकरे सति । किं कृत्वा । कार्य जातावसरे कृत्याकृत्यविधि जानातीति कार्यजस्तस्य भावस्तया शिक्षाप्रदानादिषु निपुणत्वेन संनिधौ समीपे शालमानान् शोभ