________________
८९६
काव्यमाला। वृन्दं द्रुमाणामिव पुष्पकालाद्यस्मादृतेऽन्यद्विफलं व्रतादि । शुभः स. भावोऽस्तु ममापवर्गमार्गानुलग्नाङ्गभृतां सहायः ॥ १५१ ॥ यस्मात् शुभमावाहते विना अन्यदितरद्रतादि सर्व नियमचारित्रादिपालनप्रमुखं सकलमपि विफलं वन्ध्यमेव । किमिव । वृन्दमिव । यथा पुष्पकालाद्वसन्तसमयाहते समस्तं द्रुमाणां पादपानां वृन्दं कदम्बकं निष्फलं भवेत् । स शुभो भावो ममास्तु निर्मलपरि. माणो मम भवतु । किंभूतः । अपवर्गो मोक्षः अर्थान्नगरं तस्य मार्गः पन्थाः तत्रानुलमा. स्तमनुप्रस्थिता येणभृतो भव्यजनास्तेषां सहायः ॥
भुक्तेन येनात्र कदाचिदात्मा न दारुणा वह्निमिवाप तृतिम् । शिवंगमीव स्वजनानुषङ्गं कृत्स्नं तमाहारमहं जहामि ॥ १५२ ॥
अहं तं त्रिजगप्रसिद्धं यच्छब्दसंबद्धं च कृत्स्नम् अनशनपानखादिमखादिमरूपं सर्वजातीयं चतुर्विधाहारं जहामि । अत्र पानशब्देनापरपानकादि गृह्यते । जलभुत्कलं : त्यजामि । क इव । शिवंगमीव । यथा मोक्षं गमिष्यतीत्येवंशीलो नीरागः पुमान् . सर्वखजनानां निजकुटुम्बानामनुषङ्गं निजपरिजनवर्गस्य संवन्धं जहाति । स कः । अत्र जगति संसारे वा येनाहारेण भुक्तेन भक्षितेन कृत्वा कदाचित्कस्मिन्नप्यतीतानागतवर्तमानलक्षणे काले आत्मा जीवस्तृप्ति संतोषं नाप न लेभे । क इव । वह्निरिव । यथा दारुणा काष्ठेन । जातावेकवचनम् । हुताशो न तृप्यति । यदुक्तम्-'नाग्निस्तृ. प्यति काष्ठानां नापगानां महोदधिः' इति ॥
सप्तास्ति यः पद्ममिवाष्टसिद्धिश्रीणां जगत्कल्पितकल्पसालः । अलीव पद्मे रमतां मदीये चिचे चिरं श्रीपरमेष्ठिमन्त्रः ॥ १५३ ॥
स श्रीपरमेष्ठिमन्त्रः श्रीमन्नमस्कारश्चिरमासंसारं यावन्मदीये चित्ते रमतां मम मानसे हंसवत्खेलतु । क इव । अलीव । यथा भृङ्गो भ्रमरः पद्म विकसितकमले सुचिरं रमते। स कः । यः श्रीनमस्कारः अष्टानाम् अणिमा-वशिता-ईशित्वं-प्राकाम्यं-महिमा-लघिमा-कामावसायित्वं-प्राप्तिः इत्यभिधानामपरासां वा मनःकल्पितानामष्टानां महासिद्धीनामेव श्रीणां लक्ष्मीणां पद्ममिव स्मेरकमलमिव सद्म वाससौधमस्ति । पद्मवासेति लक्ष्म्या अभिधानत्वात् । परमेष्ठिमन्त्रो जगतां त्रिभुवनजनानां कल्पितेषु कामितेषु कल्पसालः वाञ्छितसंपूरणे कल्पद्रुमोऽस्ति ॥
वाधीणसस्येव विषाणमेको वर्तेत मे कश्चन वर्ततेऽन्यः । पुनर्धरित्र्या इव वृत्रशत्रुः कस्यापि न स्यामहमत्र विश्वे ॥ १५४ ॥ अत्र विश्वे अस्मिञ्जगति अहमेको वर्ते। किमिव । विषाणमिव । यथा वाध्रीणसस्य खगिनः गण्डको वन्यजीवविशेषजीवविशेषं तस्य विषाणं शृङ्गमेकमेव भवति । यदुक्तं कल्पसूत्रे-'खग्गिसिगच्चएगगे' इति । तथा मे मम कश्चन कोऽप्यन्यः परोन वर्तते नास्ति।