________________
२४
काव्यमाला।
चन्द्राश्मवेश्मस्मितमुद्वहन्ती कटाक्षयन्ती सितकेतनैश्च । युवेव जायां नगरीमिवैतां क्रोडीकरोति प्रणयेन वप्रः॥ १०४ ॥ वप्रः प्राकारः प्रणयेन स्नेहेन। 'प्रणयः स्नेहयाच्चयोः। विस्रम्भ प्रसरेऽपि च' इत्यनेकार्थः । उत्प्रेक्ष्यते-एतां नगरी क्रोडीकरोति आलिङ्गतीवेत्युत्प्रेक्षा । 'आलिङ्गनं परिष्वङ्गपरीरम्भः क्रोडीकृतिः' इति हैम्याम् । वास्तवार्थे तु मध्येकरोति इत्यर्थः । क इव । युवेव। यथा युवा तरुणः स्नेहेन जायां पनी कोडीकरोति परिरम्भते । किंभता पुरी जायां च ! चन्द्राश्मवेश्मानि विधुकान्तरत्नघटितगृहाणि तान्येव तत्तुल्यं च स्मितं हसितमुद्वहन्तीं विभ्रतीम् । पुनः किंभूताम् । सितकेतनैरुज्ज्वलपताकाभिः कृत्वा कटाक्षयन्ती कटाक्षान्सृजन्ती मुञ्चन्तीम् । 'कटाक्षाः कृष्णाः श्वेताश्च वर्ष्याः' इति काव्यकल्पलतायाम् ॥ इति प्राकारः॥
खालवेश्मावनिवास्तुशस्तवस्तुव्रजात्मभरिगर्भगेहैः। ... यत्रापणैः कुत्रितयापणानां वंश्यैरिवावाप्यत कापि लक्ष्मीः ॥ १०५॥ यत्र पुर्यामाप हैः काप्यनिर्वचनीया लक्ष्मीः शोभा अवाप्यत प्राप्ता । उत्प्रेक्ष्यतेकुत्रितयापणानां कूनां स्वर्गनागलोकभूलोकनाम्नां भूमीनां त्रितयं त्रिकम् । त्रैलोक्यमित्यर्थः । तास्थ्यात्तद्यपदेशात्रिभुवने विद्यमानसकलपदार्थसार्थास्ते मत्रतत्रादिविधिनाराध्यमानैः पूर्वमित्रैर्वा देवैः संपूर्यते(पण्यन्ते) एप्विति ते कुत्रिकापणास्तेषां वंश्यैः कुलेषूद्भवैरिव । किंभूतैरापणैः । स्वः स्वर्लोके, व्यालवेश्मनि नागलोके पाताले, अवनौ भूमण्डले च वास्तु स्थानं येषां तादृशाः शस्ताः सर्वोत्कृष्टाः प्रशस्या वस्तुव्रजा धनधान्यवत्रादिपदार्थसास्तैिरात्मभरयो भृतमध्या गर्भगेहा गर्भागाराणि अपवरकादिस्थानानि येषां तैः । 'कुमुदमकरन्दौघैः कुक्षिभार4मरोत्करः' इति नैषधे । कुक्षिभरिभृतमध्य इति तद्वृत्तौ ॥
बालीककालागुरुगन्धसारसारङ्गनाभीहिमवालुकाभिः । सद्भिः समाज्ञाभिरिवादसीयापणैरवास्यन्त दिशोऽप्यशेषाः ॥ १०६ ॥ अदसीयापणैः पुरीसंबन्धिभिर्हटैरशेषाः समस्ता अपि दिशोऽवास्यन्त सुरभीक्रियन्ते । काभिः । वाहिकानि कुङ्कमानि कालागुरवः काकतुण्डा गन्धसाराश्चन्दनाः सारङ्गनाभ्यः कस्तूरिकाः । कस्तूरीवाच्यपि नाभिशब्दो दीर्घोऽप्यस्ति । यथा नैषधे'गोरोचनाकुङ्कमचन्दनैणनाभीविलेपान्पुनरुक्तयन्ति' इति । हिमवालुकाः कर्पूरास्ताभिः । काभिरिव । समाज्ञाभिारेव । यथा-सद्भित्तमैः समाज्ञाभिः स्वकीर्तिभिर्दिशो वास्यन्ते ॥
यदापणश्रेणिषु सान्द्रचान्द्रक्षोदेषु गाङ्गाविव वालुकासु । । मौग्ध्येन नीलैरिव काचगोलैः क्रीडन्ति डिम्भाः स्फुरदिन्द्रनीलैः॥१०७॥ पदापणश्रेणिषु पुरीविपणिपशिषु डिम्भा महेभ्यबालकाः क्रीडन्ति, रमन्ते । केषु ।