________________
१ सर्गः]
हीरसौभाग्यम् । पश्यास्तै नैलॊकै रजन्या रात्रौ इत्यमुना प्रकारेण व्यमशि वितय॑ते स्म । इति किम् । पिपासितं तृपितम् । च पुनः रोचकितं बुभुक्षितम् । 'बुभुक्षायामशनाया जिघत्सा रोचको रुचिः' इति हैम्याम् । रोचकः संजातोऽस्येति रोचकितस्तं रङ्कमुत्सङ्गमृगं वाः पानीयं पायितुं च पुनः शष्पानीलवणांश्वारयितुम् । किमुत्प्रेक्ष्यते-इह परिखायां चन्द्र आगादिव ॥ इति पुरपरिखा ॥
नभःपरीरम्भणलोलुभैर्यद्वप्रो मणिश्रेणिमहःप्ररोहैः । घनान्विनाखण्डलधन्वदण्डमकाण्डमाडम्बरयन्निवास्ते ॥ १०१ ।। यद्वप्रो यस्य प्रलादनपुरस्य वप्रः प्राकार आस्ते वर्तते । उत्प्रेक्ष्यते-मणिश्रेणीनां रबराजीनां महःप्ररोहै रोचिरङ्करैर्घनान् मेघान्विना । अन्येष्वपि ऋतुषु मेघागमः कालानुभावेन भवत्येव । माघेऽपि मेघस्य दृश्यमानत्वात् । तथा प्रावृट्कालेऽपि कदाचिज्जलधारा भवन्ति न भवन्ति चेति कलियुगे नियमो न दृश्यते, अतः प्रोक्तं प्रावृषं विना मेघानपि विना चेति । अकाण्ड · प्रावृषमन्तरेण आखण्डलधन्वदण्डमिन्द्रधनुर्यष्टी. माडम्बरयन् प्रकटयन्निवास्ते । रत्नकान्तिरिन्द्रधनुकारा' निर्यान्ति । किंभूतैः प्ररोहैः। नभस आकाशस्य परीरम्भणमालिङ्गनं तत्र लोलुभैालसैः ॥
सालोऽदसीयः ससनातनश्रीः कपाटपक्षश्च सुवर्णकायः । विगाहमानो गगनं कथं न लभेत तायेण सदृक्षभावम् ॥ १०२॥
अस्याः पुर्या अयमदसीयः। नासादसीया तिलपुष्पतूणम्' इति नैषधे । सालः प्राकारः तार्येण गरुडेन सदृक्षभावं सादृश्यं कथं केन प्रकारेण न लभेत प्राप्नुयात् ।। अपि तु प्राप्रोत्येवेति । किंभूतः सालो गरुडश्च । सह सनातनया अनश्वरया नित्यस्थायुकया । 'सदा सनानिशं शश्वत्' इति हैमीवचनात् । श्रिया अद्वैतशोभया विष्णुलक्ष्मीभ्यां च वर्तते यः । 'दामोदरः शौरिसनातनौ विधुः' इति हैम्याम् । स च पुनः किंभूतः । कपाटाचेव तत्तुल्यौ पंक्षी यस्य सः । स च पुनः किंभूतः । सुवर्णस्य हेम्नः कायोऽहं यस्य स हिरण्मयः । पुनः किं कुर्वाणः । गगनमाकाशमुच्चैस्त्वेन भ्रमणेन च विगाहमानः स्वगोचरीकुर्वाणः ॥ ... मणीघणिश्रेणिधुतान्धकारैरभ्रंकषैर्यत्कपिशीर्षकौघैः। यानश्वरोदित्वरकर्मसाक्षिलक्षेव पूर्दक्षजनरलक्षि ॥ १०३ ॥ दक्षजनैर्विदग्धलोकैर्या प्रलादनपुरी अनश्वराः शाश्वता उदित्वरा उदयशीलाः कर्मसाक्षिणो भास्करास्तेषां लक्षाः शतसहस्राणि, यस्यामेवंविधे वालक्षि दृश्यते स्म । कैः । अभ्रंकषैर्गगनोल्लेखिभिर्यत्कपिशीर्षकाणामालकानामोघैः समूहैः । किंमतैः । मणीघृणीनां रत्नकान्तीनां श्रेणीभी राजीभि(तानि दलितान्यन्धकाराणि येः॥