________________
काव्यमाला।
सिन्धुरराजानां गजेन्द्राणी यानं गमनं तद्वद्वा गतिर्यस्याः। च पुनः किंभूता। प्रसूनं पुष्प. मेव तत्समानं नेत्रं नयनं यस्याः । च पुनः किंभता । स्तवको कुसुमगुच्छौ एव तत्स्वरूपी स्तनौ कुचौ यस्याः सा ॥ इति प्रह्लादनपुरोपवनवर्णनम् ॥
कस्रेण वप्रेण वसुप्रभेणासतीव यूना सह संसिसृक्षुः। दूती चिकीर्षुः परिखामिवास्य स्थितानुबिम्बेन निकुञ्जलक्ष्मीः ॥ ९८ ॥ निकुञ्जलक्ष्मीवनश्रीरनुबिम्बन प्रतिविम्बितेन कृत्वा स्थिता । अर्थात् परिखापयसि तिष्ठति स्म । उत्प्रेक्ष्यते-अस्य पुरस्य परिखां दुती संदेशहारिकां स्वेच्छया परदारपुरुषेषु संचारभाजोरभिसारिकयोः पुरुषयोषितोमिथः संदेशादीनुक्त्वा दत्त्वा च मिथः संगमकारि.. कावार्ता चिकीर्षुः कर्तुमिच्छरिव स्थिता । दूतीकरणे हेतुमाह-वनश्रीः किं कर्तुमिच्छुः । संसिसक्षुः । सङ्गं कर्तुमिच्छुः । 'निर्वापयिष्यन्निव संसिसृक्षुः' इति नैषधे । केन । वप्रेण प्राकारेण । 'वप्रत्रयं चारुचतुर्मुखाङ्गता' इति हैम्याम् । तथा 'वप्रः प्राकाररोधयोः । क्षेत्रे तते चये रेणौ' इत्यनेकार्थः । किंभूतेन । कमेण मनोज्ञेन । 'काम्यं कर्मे कमनीयम्' इति हैम्याम् । वसूनां मणीनां प्रभा कान्तियत्र । केव । असतीव । यथा पांसुला स्त्री केनापि यूना सङ्गं कर्तुकामा कामपि समीपवर्तिनी दूतीं कर्तुमिच्छन्ती तगृहे उपेत्य तिष्ठति । किंमूतेन यूना । कम्रेण स्वकामुकेन । 'कामुकः कमिता कम्रः' इति हैम्याम् । पुनः किंभूतेन । वसुभिर्द्रव्यैः प्रकर्षेण भातीति । 'वसु स्वादौ रत्ने कृद्यौषधे धने' इत्यनेकार्थः ॥
खर्जिष्णुपुर्याः परिखाप्लवङ्गरावैरुदस्यात्मतरङ्गहस्तान् । अदःपुरस्ते कियती विभूतिर्वस्वोकसारामिति गर्हतीव ॥ ९९ ॥ स्वः स्वर्गस्य जिष्णोर्जयनशीलायाः पुर्याः प्रह्लादननगर्याः परिखा खनिका । उत्प्रेक्ष्यते-आत्मनस्तरङ्गानेव हस्तानुद्यम्य उध्वीकृत्य प्लवङ्गरावैर्मण्डूकशब्दैर्वस्वोकसारां ध. नदनगरीम् । इत्यमुना प्रकारेण गर्हति निन्दतीव । यददःपुरः अस्या नगर्या अग्रे ते विभूतिः समृद्धिः कियती कियत्प्रमाणा । न किमपीत्यर्थः । इहाखिलेऽपि काव्ये केवल. मुत्प्रेक्षैव । अन्यत्र ग्रन्थादावप्येवं क्वापि दृश्यते । यथा नैषधे-'सिन्दुरद्युति मुग्धमूपनि धृतस्कन्धावधि श्यामिके व्योमान्तःस्पृशि सिन्धुरेऽस्य समरारम्भोद्धरे धावति । जानीमो नु यदि प्रदोषतिमिरव्यामिश्रसंध्याधियेवास्तं यान्ति समस्तबाहुजभुजातेजःसहस्रां. शवः' ॥, 'अविरलमिदमम्भः स्वच्छयोच्छालयन्त्या विकचकमलकान्तोत्तानहस्तद्वयेन । परिकलित इवार्थः कामबाणातिथिभ्यः सलिलमिव वितीर्ण बाल्यलीलासुखाय ॥' इति चम्पूकथायाम् । एवमन्यत्रापि ज्ञेयम् ॥ पिपासितं रोचकितं च रहुँ वाः पायितुं चारयितुं च शष्पान् । चन्द्रः किमागात्परिखेन्दुबिम्बपश्यैर्व्यमशीति जनै रजन्याम् ॥१०॥ परिखायां खातिकाजले इन्दोश्चन्द्रस्य बिम्ब प्रतिबिम्ब पश्यन्तीति परिखेन्दुबिम्ब