SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ १ सर्गः] । हीरसौभाग्यम् । यस्येति संवन्धः । विपिने क्रीडाथै सरस्यो महान्ति सरासि विरेजुर्भान्ति स्म । किं. भूताः । क्रीडन्तो जलकेलिं कुर्वन्तस्तुरङ्गा अश्वा द्विपा हस्तिनः पद्मनेत्रा विलासवत्यश्च यासु ताः । इवोत्प्रेक्ष्यते-सुधापयोधेः क्षीरसमुद्रस्यैताः क्रीडासरस्यः प्रतिमाः प्रतिवि. म्बानीव । किंभूताः। उच्चैःश्रवा इन्द्राश्वः, स्वर्द्विरद ऐरावतः, अप्सरसः उर्वश्यादयो यासु ताः । सर्वेषां क्षीरसमुद्रसमुत्पन्नत्वेन ॥ मधुप्रधावन्मधुकृन्निरुद्धैर्जाम्बूनदैर्यत्र बभेऽरविन्दैः । सरःश्रियामाभरणैरिवान्तःसंदर्भगीभवदश्मगर्भः ॥ ९५ ॥ यत्र वने जाम्बूनदैः सौवर्णररविन्दैः कमलैर्बभे बभासे। 'विकसितकनककमलकुवलयोछलितरजःपुञ्जपिञ्जरितराजहंसावतंसया' इति चम्पूकथायां स्वर्णकमलसद्भावः । किंभूतैः। मध्वर्थ मकरन्दकृते प्रधावन्तो दूरादाघ्राय त्वरितमागच्छन्तो मधुकृतो भ्रमरास्तैनिरुद्धे. प्तैः । उत्प्रेक्ष्यते-सरःश्रियां तटाकलक्ष्मीणामाभरणैर्भषणैरिव । किंभूतैः । अन्तर्मध्ये संदर्भो विविधरचना येषां तादृशा गर्भीभवन्तः कुक्षौ संपद्यमाना अश्मगर्भा मरकतमणयो येषु तैः ॥ पत्रान्तराजज्जलबिन्दुवृन्दैः सरःसु यस्मिन्स्मितपुण्डरीकैः । अदीपि मुक्ताकलितातपत्रैर्नन्दीसरःश्रीजयिनामिवैषाम् ॥ ९६ ॥ यस्मिन् वने सरःसु अर्थादुपवनमध्यस्थक्रीडातडाकेषु स्मितैर्विकसितैः पुण्डरीकैः श्वेतकमलैरदीपि व्यराजि । किंभूतैः । पत्रान्तेषु पलाशप्रान्तेषु राजन्तो झगब्भागति कान्त्या दीप्यमाना ये बिंन्दवः सलिलकणास्तेषां वृन्दानि येषु तैः । इवोत्प्रेक्ष्यते-नन्दीसरःश्रीजयिनां शक्रसरसीलक्ष्मीजित्वराणाम् । 'मघवास्य तु । (अस्येन्द्रस्य) द्विषः पत्नी सुतः' इ. त्याद्यारभ्य 'हाहादयस्तु गन्धर्वाः' इति यावत्सर्वेऽप्यस्य हरेरिति व्याख्ययमिति हेमचन्द्र.. हार्दम् । तेनेन्द्रसरः इति । एषां सरसां मुक्ताकलितातपत्रैर्मुक्ताजालकयुक्तच्छत्रैरिव ॥ इति वनक्रीडातडाकाः ॥ दृकर्णवेणी कलकण्ठकण्ठी बिम्बाधरा सिन्धुरराजयाना । प्रसूननेत्रा स्तबकस्तनी च भुक्ता वनश्रीरिह गन्धवाहैः ॥ ९७ ॥ इह स्थाने पुरीबहिःपरिसरे वनश्रीरुद्यानलक्ष्मीर्गन्धवाहैर्भुक्ता विलसिता । अन्यापि स्त्री वने गन्धस्य मृगनाभिचन्दनादिसौरभस्य वाहैर्धारकर्युवभिर्भुज्यते । किंभूता वनश्रीः स्त्री च । दृक्कर्णा भुजङ्गा एव तत्तुल्या च वेणी कबरी यस्याः सा । पुनः किंभता । ए. कोऽपि चकारः सर्वत्रापि योज्यः । कलकण्ठानां कोकिलानां कण्ठो ध्वनिर्यस्याः तत्तु. ल्यश्च ध्वनिर्यस्याः सा। 'कण्ठो ध्वनौ संनिधाने ग्रीवायां मदनद्रुमे' इत्यनेकार्थः । च पुनः किंभूता । विम्बं बिल्वं गोहकं वा तदेव तत्सदृशश्च अधर ओष्ठो यस्याः । पुनः किंभूता । १. 'उर्वश्यादय इव प्रतिकृतयः' इति व्याख्येयम्.
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy