________________
१ सर्गः ]
होरसौभाग्यम् ।
३५
' सान्द्रचान्द्रक्षोदेषु स्निग्धेषु निबिडेषु वा कर्पूराणां चूर्णेषु । केन । मौग्ध्येन ज्ञानेन । कास्विव । वालुकास्विव । यथा गाङ्गासु गङ्गासंबन्धिनीषु पुलिनसिकतासु कुमाराः क्रीडन्ति तथैव घनसारचूर्णेषु रमन्ते इति कर्पूरपारीप्राचुर्यात्तत्क्षोदास्तु बहिः क्षिप्यन्ते । कैः । स्फुरन्तो दीप्यमाना ये इन्द्रनीला नीलमणयो मरकतरत्नानि तैः । कैरिव । काचगोलैरिव । यथा— शिशवः काचानां क्षारमृद्विकाराणां गोलैर्गुटकैः शङ्खा इति प्रसिद्धैः खेलन्ति । किंभूतैः । नीलैईरिद्वणैः । अनेन विशेषणेन मणिरत्नबाहुल्यमपि प्रतिपादितम् ॥ इति हट्टा: ॥
1
यच्चान्द्रचामीकरवेश्मचन्द्रचण्डाचिषौ गर्भगताङ्गिरावैः ।
मिथः किमित्युन्नयतोऽभियातिर्जेयः कथं राहुरजय्यवीर्यः ॥ १०८ ॥
यस्याः पुर्याश्चान्द्राणां चन्द्रकान्तमणीनां ( चान्द्राणां सौवर्णानाम् ? ) । 'चन्द्रोऽम्बुकाम्ययोः । स्वर्णे सुधांशौ कर्पूरे कम्पिल्ले मेचकेऽपि च' इत्यनेकार्थः । (चामीकराणां सौवर्णानाम्) चन्द्रोपलैः स्वर्णैश्च घटिते क्वापि वेश्मनि गृहे एव चन्द्रचण्डाचिपौ विधुभास्करौ तौ गर्भे गृहमध्ये गतानां प्राप्तानामङ्गिनां मनुष्याणां रावैर्मिथोवार्तादिशब्दैः मिथः परस्परमित्यमुना प्रकारेण । किमुत्प्रेक्ष्यते—उन्नयतः किमु । विचारयत इव । 'वितर्कः स्यादुन्नयनं परामर्शो विमर्शनम्' इति हैम्याम् । इति किम् । यत् अजय्यं जेतुमशक्यं वीर्य पराक्रमो यस्य तादृशो राहुरभियातिः शत्रुः । कथं केन प्रकारेण आत्मभ्यामावाभ्यां वा जेयो जेतव्यः । पराभवगोचरीकर्तव्य इति ॥
शशाङ्कविम्बं कुलिशाङ्गणान्तर्दृष्ट्वा वृणानानिह मुग्धडिम्भान् ।
विलोभ्य केंलीकलहंसबालैराश्वासयन्ति स्म कथंचिदम्बाः ॥ १०९ ॥
इहपुर मुग्धानविदग्धान् डिम्भान् बालकान् केलीकृते क्रीडार्थम् । 'नित्योदयोतपदं समस्तकमला केली गृहं राजते' इति पूर्वाचार्यप्रणीतचिन्तामणि पार्श्वनाथस्तोत्रे । रक्षिता ये राजहंसबालकास्तैर्विलोभ्य लोभयित्वा अम्बा जनन्यः कथंचिन्महता कष्टेन आश्वासयन्ति । किंकुर्वाणान् बालान् । वृणानान् याचमानान् । किं कृत्वा । दृष्ट्वा प्रेक्ष्य । किम् । शशाङ्कबिम्बं चन्द्रविम्बम् । क्व । कुलिशैहीं रकैर्बद्धानाम् । 'शुचीमुखं तु हीरकः । वराटकं रत्नमुख्यं वज्रपर्यायेनाम च' इति हैम्याम् । बद्धानां निर्मितानामङ्गणानां गृहाजिराणामन्तर्मध्ये ॥
चन्द्रोदये चन्दिर कान्तगर्भसंदर्भशृङ्गस्रवदम्वुपूरैः ।
शिरःस्फुरत्सिद्धधुंनी धरेन्द्रो यत्रानुचक्रे कलधौतसौधैः ॥ ११० ॥
यत्र पुरे चन्द्रोदये विधोरभ्युद्गमकाले कलधौतसौधै रूप्यमन्दिरैः शिरसि मस्तके स्फुरन्ती प्रसरन्ती वहन्ती वा सिद्धधुनी गङ्गा यस्य तादृशो धराणां पर्वतानामिन्द्रो राजा
१. समासान्तविधेरनित्यत्वेन निर्वोढव्यम्.