________________
काव्यमाला।
रदेवस्येव तपस्तथानुष्ठानादिकमासीत् । तत्किचिदिह ग्रन्थे देशमात्रं यथाश्रुतं मया प्रन्थकोंच्यते कथ्यते ॥
सूरीन्दुरेकाशनकं न यावज्जीवं जहौ न्यायमिव क्षितीन्द्रः। .. पश्चापि चासौ विकृतीरहासीद्गुणान्मरस्येव पराबुभूषुः ॥ ९०॥ .. सूरीन्दुर्मुनिचन्द्रो यावदिति यावन्तं समयं जीव्यते प्राणा धार्यन्ते इति यावजीवं संयमजन्म मर्यादीकृत्य एकवारमशनमेकाशनं सकृद्भोजनं वा यत्र । एकाशनके खार्थे कः । न नैव जहौ तत्याज । सकृदेव भुक्तवानित्यर्थः । क इव । क्षितीन्द्र इव । यथा धर्मप्रधानो राजा न्यायं नीतिं न जहाति। च पुनरसी सूरिः दधिदुग्धपक्वान्नतैलगुडघृताभिधाना पञ्चसंख्याका विक्रियते विकारयुक्तो जीवः क्रियते एभिरिति विकृतयः खा विकृतीरहासीदत्याक्षीन्मुञ्चति स्म।उत्प्रेक्ष्यते-मरस्य कंदर्पस्य पञ्चप्रमाणान शब्दरूपगन्धरसस्पर्शाभिधान् गुणान् पराबुभूषुः पराभवितुमिच्छरिव ॥
द्रव्याणि वल्भावसरे व्रतीन्द्रः सदाददे द्वादश नाधिकानि । किं भावना पोषयितुं विशिष्य भवान्धिपारप्रतिलम्भयित्रीः ॥११॥ व्रतीन्द्रः सदा सर्वकालं सूरिपदप्राप्ति मर्यादीकृत्य वल्भावसरे आहारकरणसमये द्वादश सूर्यसंख्ययैव द्रव्याणि धान्यानां नामग्राहं विकृतस्त्वेकैव शाकान्यपि नामग्राह पानीयं च सर्वाण्यपि द्वादशान्त वीनि आददे जग्राह नाधिकानि द्रव्याण्यग्रहीत्। कदा. चिदपीत्यर्थः। उत्प्रेक्ष्यते-अनित्यता-अशरणत्व-संसारत्व-एकत्व-अन्यत्व-अशुचित्वआश्रव-संवर-निर्जरा-धर्म-लोक-बोधिसंज्ञा द्वादश भावनाः पोषयितुं पुष्टाः क. तुमिव । कथम् । विशिष्य विशेषप्रकारेण कृत्वा । किंभूता भावनाः। भवः संसारः स एवाब्धिः समुद्रस्तस्य पारस्य परतीरस्य मोक्षवेलाकूलस्य लम्मयित्रीः प्रापयित्रीः । 'अन्यथा कथमदः प्रतिलम्भः' इति नैषधे । 'प्रतिलम्भः प्राप्तिः' इति तद्वृत्तौ ॥ .
व्रतिक्षितीन्द्रेण स सप्तपञ्चत्रिंशन्मिताः कातरितान्यसत्त्वाः। . आहारदोषाः कृतपापपोषा द्वेष्या इव द्वेषजुषा निषिद्धाः ॥ १२ ॥ व्रतिक्षितीन्द्रेण सूरिराजेन सह सप्तभिर्वर्तते। सप्तयुक्ता इत्यर्थः। तादृशाः पञ्चत्रिंशत् तैर्मिताः प्रमाणीकृताः । एतावता सप्तान्विताः पञ्चत्रिंशत् द्विचत्वारिंशद्भवन्ति । द्वाचत्वारिंशत्संख्याकाः। 'सोलस उग्गमदोसा सोलस उप्पायणाय दोसाय । दस एसणाइ दोसा मि. लीय सव्वे विवायाला ॥' इति वचनात् । अथैतानेव पृथक् विवृणोति । श्राद्धश्राद्धीभ्यः षोडश दोषाः समुत्पद्यन्ते । तानेव दर्शयति-आध्यधर्मिक-औद्देशिक-पूतिकर्ममिश्रकर्म-स्थापनाकर्म-प्राभृतिकर्म-प्रादुःकरण-क्रीतदोष-प्रामित्य-परावृत्तत्व-अभ्याहत-उद्भिन्नक-मालापक-आच्छेद्यक-अनिसृष्ट-अध्यवपूरकाः । अथ साधुसाध्वीभ्यः षोडश दोषा जायन्ते। तानेव दर्शयति-धात्रीदोष-दूतीदोष-निमित्तदोष-आजीवकवनोपक-चिकित्सा-क्रोधदोष-मान-माया-लोभ-पूर्वसंस्तव-पश्चात्संस्तव-विद्यादोष