________________
१७ सर्गः] हीरसौभाग्यम् ।
कदापि कस्मिन्नापे अवसरे अखाध्यायनिर्मुक्तविकालवेलारहितसमये वा चरणेन्दि. रायाचारित्रलक्ष्म्या रुच्यो भर्ता । 'विवोढा रमणो भोका रुच्यो वरयिता धवः' इति हैम्याम् । खाध्यायस्य प्रोचःस्वरेण सिद्धान्तादिगणनरूपस्य सान्द्रं धीरगम्भीर ध्वनितं दधार । ध्वनि विधत्ते स्मेत्यर्थः। "ध्वनिमाबभार' इत्यपि पाठः । बाढध्वनिना सिद्धान्ताद्यगणयदित्यर्थः। उत्प्रेक्ष्यते-नीरन्ध्र सर्वतोऽपि निर्गतं रन्ध्र छिद्रं रिक्तस्थानं यथा स्यात्तथा पाथोभिः पयोभिः परिपुर्यमाणस्य निर्भरं भ्रियमाणस्य पर्जन्यानां प्रावृषेण्यप. योवाहानां पुञ्जस्य घटाया ऊर्जितं प्रोद्दामं गर्जितं किं गर्जिरिव ॥ इत्यभिग्रहध्यानखाध्यायादि ॥ तत्र प्रतिष्ठात्रितयीमतुच्छोत्सवोच्छलच्छेकमनःप्रमोदाम् । चक्रे मुनीन्द्रो भुवनत्रयस्याधिपत्यलक्ष्मी स्पृहयन्निवान्तः ॥ ७ ॥ तत्रोनतनगरे मुनीन्द्रो हीरसूरिः प्रतिष्ठात्रितयीं शतसहस्रशो भगवत्प्रतिमाप्रतिष्ठापनरूपाणां प्रतिष्ठानां त्रिकं चके व्यधत्त । किंभूताम् । अतुच्छोऽत्यभ्यधिको यत्र उत्सवो महामहास्तेन उच्छलन्वर्धमानः छेकानां विदग्धानां मनसि खान्ते प्रमोदो हर्षो यस्याम् । उत्प्रेक्ष्यते--अन्तः खचित्ते भुवनत्रयस्य त्रैलोक्यस्याधिपत्यलक्ष्मी राज्यश्रियं स्पृहयन् वाञ्छन्निव ॥
उग्रं तपो.धन्य इवानुतिष्ठन्नाद्यं चतुर्मासकमाततान । अपाटवार्तिकचन काययष्टेः पुनर्द्वितीयं कुरुते स्म तस्मिन् ॥ ८॥ स सूरिस्तस्मिन्नुनतनगरे आद्यं विमलाचलयात्रां कृत्वा तत्र गमनानन्तरं प्रथम चतुर्मासकं वर्षारात्रमाततान करोति स्म । किं कुर्वन् । उग्रमत्युत्कटं घोरं षष्ठाष्टमादिम. मतिशायि विकृष्टं तपोऽनुतिष्टन् विदधत् । क इव । धन्य इव । यथा काकन्दीसत्को द्वात्रिंश.त्कनकोटीका मिनी द्वात्रिंशद्भ मिकप्रासादमौका धन्यनामानगारः उग्रं षष्ठाचामाम्लनि अनुतिष्ठति स्म । पुनर्द्वितीयवारं काय यष्टेः शरीरस्य किंचन किमपि अपाटवादपटुवा
प्रबलरोगादिना मन्दत्वादिकारणात् द्वितीयं द्वयोः संख्यापूरणम् । कम् । चतुर्मासकं • तस्मिन्नेबोनतपुरे कुरुते स्म ॥ * अथ सूरेदीक्षादानदिनादारभ्य यत्किचित्तपो विहितं तदुच्यते परिवारश्च
अथ व्रतादानदिनात्तपो यत्तीनं व्रतीन्द्रेण विधीयते स्म । बभूव यस्तस्य परिच्छदश्च श्रीवीरवत्किंचिदिहोच्यते तत् ॥ ८९ ॥ अत्यधिकारान्तरकथनम् । तस्य व्रतस्य दीक्षाया आदानं ग्रहणं तस्य दिनादिवसाही. क्षाप्रणदिनं मर्यादीकृत्य व्रतीन्द्रेण हीरसूरिणा यत्किंचिदल्पमनल्पं वा तर एकाशनकादिकं तथा तीव्र इष्टाप्टमादिमं घोरं कठिनं विधीयते स्म कृतं च । पुनस्तस्य प्रभोर्यो यावत्संख्याकः परिच्छदः परिवारो बभूव संजातः । किंवत् । श्रीवीरवत् श्रीमन्महावी