________________
१७ सर्गः] हीरसौभाग्यम् ।
कृष्टेव तद्भाग्यभरैस्तदाविर्भूयाश्रमार्गेऽब्धिगभीररावा । पद्मावती वाचमिमामुवाच मा वत्स कापारिह साहसं त्वम् ॥ ४० ॥ तदा तस्मिन् सागरव्यवहारिणः सागरमध्ये पतनसमये अभ्राणां मेघानां मार्गे वर्त्मनि अत्र एव मार्गे गगनाध्वनि वा आविर्भूय प्रकटीभूत्वा पद्मावती पार्श्वनाथशासनाधिष्ठायिका यक्षिणी धरणेन्द्राप्रमहिषी वा अनयोरन्यतरा वा इमा वक्ष्यमाणां वाचं वाणीमुवाच वदति स्म । किंभूता । अब्धिवजलधिधीरध्वनितमिव गभीरो गम्भीरो रावो ध्वनिर्यस्याः । उत्प्रेक्ष्यते तद्भाग्यभरैः सागरव्यवहारिणा प्राचीनाचीर्णमहासुकृतसंदोहैरिवा. कृष्टो वा आकृष्यानीवात्र । इमां काम् । हे वत्स हे पुत्र सागरमहेभ्य, इहागाधपयोधिमध्ये साहसं झम्पालक्षणम् अतलस्पृक्जलमध्यनिपतनरूपं सत्त्वं मा कार्षीः । मा इति निषेधे । सर्वथा मा कुर्वीथाः । चिरं जीव । 'मा कार्षीत्कोऽपि पापानि मा च भू. स्कोऽपि दुःखितः' इति हेमाचार्यकृतयोगशास्त्रे ॥
मध्येऽम्बुधेरस्ति .समस्तदुःखपाथोधिमन्थावनिभृत्प्रभावम् । निधानमम्भोनिधिमेखलाया इवान्तरे पार्श्वजिनेन्द्रबिम्बम् ॥ ४१ ॥
हे वत्स, मध्येऽम्वुधेः समुद्रसलिलान्तराले पार्श्वजिनेन्द्रस्य बिम्बं मूर्तिरस्ति विद्यते। किमिव। निधानमिव । यथा अन्भोनिधिमेखलायाः समुद्रः काञ्चीरूपो वृत्ताकारः परितो. वर्तित्वाद्यस्यास्तादृश्याः क्षोण्या अन्तरे मध्ये रूप्यसुवर्णमणिमाणिक्यमण्डितं निधानं भवति । किंलक्षणं बिम्ब निधानं च । समस्तानि ऐहिकामुष्मिकाणि दुःखानि सकलानि दौस्थ्यभृत्यभावादीनि क्लेशानि । यदुक्तं भर्तृहरिकाव्ये-'सेवाधर्मः परमगनो योगि'नामप्यगम्यः' इति । परलोके देवादिषु परप्रेक्ष्यभावो महदुःखं तान्येव बहुत्वात्पयोधिः मारावाररूस्य मन्यने विलोडने मन्धावनिभृत् मन्दरगिरिस्तत्तुल्यः प्रभावो माहात्म्यं यस्य तत् ॥ - जलात्तदानाय्य जनैः प्रपूज्य संस्थापितं स्खे वहने धनेश ।
उत्तालवातूलमिवार्कतूलं विघ्नं पुरैतद्धरति त्वदीयम् ॥ ४२ ॥ - हे धनेश धनपते व्यवहारिन् , जनैर्निजनाविकलोकै लाजलधिसलिलात् आनाय्याकर्षयित्वा पुनः प्रपूज्य प्रकर्षेण चन्दनसुमकर्पूरागुरुभिरभ्यर्च्य तन्मयोक्तम् श्रीपार्श्वबिम्बं खे आत्मीये अर्थात्त्वत्संबन्धिनि वहने यानपात्रे संस्थापितं सत् एतत्प्रत्यक्षमविरलजलदपटलप्रचण्डपवनवेगवहनोड्यनप्रवर्तनरूपं त्वदीयं तव संबन्धिनं विघ्नं प्रत्यूहव्यूहमनिसगोद्गतोपसर्ग पुरा हरति अवश्यं हरिष्यतीति । 'यावत्पुरानिपातयोोगे भविष्यदर्थे वर्तमाना' इति सूत्रेणात्र पुरा हरति इति हरिष्यतीत्यर्थः प्रयोगः । तथा 'पुरेदमूर्व भवतीति वेघसा पदं किमस्याङ्कितमूर्ध्वरेखया' इति नैषधे । किमिव । अर्कतूलमिव । यथा उत्तालवातूलं त्वरिततरं प्रवर्तमान एव मानसमूहोऽर्कतूलं हरति उडीय क्वचिदपि क्षिपति तथैतत्त्वद्विग्नं इरिष्यति ॥