SearchBrowseAboutContactDonate
Page Preview
Page 921
Loading...
Download File
Download File
Page Text
________________ काव्यमाला । पाठीनपीठाण्डजनकचक्रकुम्भीरपुत्रैः प्रकटीभवद्भिः । वन्यैरिवारण्यमगण्यहिौभयानकोऽम्भोधिरभूत्तदास्य ॥ ३७॥ तदा तस्मिन्मेघागमप्रक्रमे तस्य सागरमहेभ्यस्य अम्भोधिः समुद्रो भयानको भयं. करो बभूव । कैः । प्रकटीभवद्भिः दृग्गोचरीभवद्भिः दृग्गोचरमागच्छद्भिः पाठीनपीठा मत्स्यविशेषा अण्डजाः सामान्यमत्स्याः नक्राश्चक्रास्तथा कुम्भीराणां पुजा बजा मकरजा. तिविशेषास्तैः कृत्वा भीमन् । किमिव । अरण्यमिव । यथा वन्यैः काननजन्मभिः अंग: ण्यैर्गणयितुमशक्यैर्गणनातीतैर्हिः हिंसनशीलैः श्वापदैर्व्याघ्रसिंहाष्टापदादिकैर्जन्तुघातकसंततिभिरटवी भयकारिणी भवेत् ॥ इति जलदोदयः ॥ क्रोधोद्धतं व्यालमिवोपयान्तं प्रकोपितं दुष्टमिवाथ चण्डम् । स सागरो भैरवसागरं तं द्रष्टुं न दृष्टयापि तदा शशाक ॥ ३८॥ स यानपात्रेण समुद्रमध्ये समेतः सागरनामा व्यवहारी यदा यस्मिन् समये तं स्फुरदमन्दमेदुरमुदिरमण्डलाकलितं प्रचण्डप्रभञ्जनप्रक्षुभ्यत्पयःप्रसरत्प्रतिदिगन्ततुङ्गतरगभरं भैरवं भयावहं सागरं समुद्रं दृष्ट्यापि लोचनेनापि द्रष्टुं विलोकयितुं न शशाक नैव समर्थीवभूव । कमिव । व्यालमिव । यथा क्रोधेन कोपाटोपेन कृत्वा उद्घतमुत्कटं सुभटको. व्यापि कलयितुमाक्रमितुमशक्यं तथा उपयान्तं संमुखमागच्छन्तं व्यालं दुष्टगजं 'धूनी' इति प्रसिद्धम् । अथ वा पूर्वोक्तविशेषणविशिष्टं गारुडिकैरपि कलयितुमशक्यं दुष्टसर्पमिव । अथ वा वन्यजीवैराक्रमितुमशक्यं श्वापदमिव । अथ वा चित्रकव्याघ्रादिभिरनाक्रमणीयं कण्ठीरवमिव । अथ वा गन्धसिन्धुरादिभिरनाकलनीयं शरभमिव । 'व्यालो दुष्टगजे सर्प खले श्वापदसिंहयोः' इत्यनेकार्थः । अथ पुनः कमिव । प्रकोपितं केनापि प्रकारेण प्रकोपितं महाकोपं प्रापितम् । तथा चण्डं दुष्टाशयं दुर्दन्तिनं वा दुष्टं दुर्जनमिव ॥ संवर्तवत्तत्र तदा खपोतलोकक्षयं प्रेक्षितुमक्षमः सन् । विलासवाप्यामिव वार्धिमध्ये यावत्स झम्पां प्रगुणः प्रदत्ते ॥ ३९ ॥ स सागरश्रेष्टी यावत् यावत्प्रमाणेन समयेन प्रगुण उत्साहवान् सन् वस्त्राद्यश्चलसंवरणेन बद्ध कच्छो वा वार्धिमध्ये समुद्रान्तः झम्पा संपातपाटवम्। जले निपतन मित्यर्थः। प्रदत्ते । कस्यामिव । विलासवाप्यामिव । यथा कश्चिजलकेलिकरणप्रवणः क्रीडादीर्घिकायां सम्पा दत्ते । किंभूतः सन् समुद्रसलिले पतति । तदा तस्मिन्मेघोत्पातसमये तत्र क्षुब्धपयोधिमध्ये संवर्तवत्कल्पान्तकाल इव खपोतलोकानां जिनयात्रारूढानेकसायात्रिकजनानां क्षयं संहारं प्रेक्षितुं खयमालोकितुमक्षमः असमर्थः सन् । मया कथं कथंचिन्मद्यानपात्रमध्येऽधिरोपिता एतावन्तो लोका एककालं प्रलयं लप्स्यन्ते । तदे. तेषां मदाश्रितानां लोकानां क्षयमहमात्मदृष्टया द्रष्टुं नालमिति तत्प्रथममेव मर्तुकामो यावजलधौ झम्पा प्रदत्ते इत्यर्थः ॥ इति सागरस्य सागरे पिपतिषा॥
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy