SearchBrowseAboutContactDonate
Page Preview
Page 920
Loading...
Download File
Download File
Page Text
________________ १७ सर्गः] हीरसौमाग्यम् । ८५९ त्यर्थः । उत्प्रेक्ष्यते इति किं वितळ विचारयित्वेव । इति किम् । यदत्राम्भोधेर्जलधे रिराशेः पुत्री नन्दना लक्ष्मीः क्वास्ति कुत्र विद्यते निभाल्य सम्यनिरीक्ष्य तां समुद्रसुतां श्रियमहं गृहामि ॥ दुर्दैवयोगाजलधौ जज़म्भे तदा कुतश्चिज्जलदस्तमोवत् । चिखेल योषेव तडित्तदङ्के जगर्न मत्तेभ इवोत्कटं सः ॥ ३४ ॥ - तदा तस्मिन् सागरव्यवहारिणः वारिधिमध्यगमनसमये दुर्दैवयोगादमाग्योदयात् प्रभावाजलधौ पयोधेपरि गगनभागे जलदोऽतिप्रबलपयोधरः कुतश्चित्करमाञ्चन स्थानादागत्य जजृम्भे नभोमण्डले परितः प्रससार । किंवत् । तमोवत् ।यथान्धकारं कुतश्चिनिरिगह्वरादिभ्य आगत्य जृम्भति द्यावाभूम्योः प्रसरति । पुनस्तस्य जलदस्याङ्के उत्सङ्के। मध्ये इत्यर्थः । तडिद्विद्युच्चिखेल चिकीड चमत्कारं कुरुते स्म। केव । योषेव । यथा वाणिनी नायिका खनायकाङ्के वैलायति । पुनः स जलदो मत्तेभ इव । वारुणीयायिमदोद्धतीभूतनूतगन्धसिन्धुर इव उत्कटं कर्णकटुकं यथा स्यात्तथा भैरवंजगर्ज गर्जारवं चकार। ततोऽहिकान्तः परिवर्तवात इव प्रवृत्तः परितः पयोधौ । कपोतपोता इव तस्य पोता निपेतुरुत्पत्य नभस्यवस्तात् ॥ ३५ ॥ ततः प्रबलपयोधिपटलप्रसरणानन्तरं परिवर्तवातः कल्पान्तकालसंबन्धी समीरण इव । 'कल्पो युगान्तः कल्पान्तः संहारः प्रलयः क्षयः । संवर्तः परिवर्तश्च' इति है. म्याम् । अहिकान्तः प्रचण्डपवनः । 'वातोऽहिकान्तपवमानमरुत्प्रकम्पनाः' इत्यपि • हैम्याम् । परितः समुद्रमध्ये सर्वत्र प्रवृत्तः प्रवर्तते स्म । प्रसरति स्मेत्यर्थः । ततः .. पवनप्रवृत्तेरनन्तरं तस्य सागरव्यवहारिणः पोता वहनानि नभसि उत्पत्य अत्युद्भटविः · कटप्रभञ्जनवंहिमरहःसंदोहोच्छालितानि गगनाङ्गणान्तरुडीयोडीय अधस्वात्पुनः पयो. धिमध्ये निपेतुः पतन्ति स्म । के इव। कपोतपोता इव । यथा पारावतपृथुका व्योमन्युहीयाधस्ताद्धरणीपीठे निपतन्ति ॥ रगत्तरङ्गावलिरम्बुराशेरालम्बमानाम्बरमम्बुपूरैः । राजी गिरीणामिव तुङ्गिमानमाविनती प्रादुरभूत्तदानीम् ॥ ३६ ॥ तदानी निस्खिलाम्बरमण्डलाखण्डाडम्बरितदुर्धरवारिधराविर्भवनादनुपरितः प्रवृत्तपरिवर्तपवमानसमानामानाकाण्डप्रकटीभवत्प्रचण्डपवनप्रसरणसमये अम्बुराशेः समुद्रस्य रगन्ती दशदिग्विभागेषु प्रचलन्ती तरङ्गाणां कल्लोलानामावलिः श्रेणिः प्रादुरमवत्प्रकटीभवति स । किं कुर्वाणा । अम्बुपूरैः पयःप्लवैः । जलभरैरित्यर्थः । कृत्वा अम्बरमाकाशमालम्बमाना आश्रयन्ती । प्रौढा पवनप्रोच्छलजलकल्लोलैजलधिव्योममण्डलावेकीभूताविव लक्ष्येते । किं कुर्वती तरगावलिः । गिरीणां राजिः पर्वतानां पङ्किरिव तुङ्गिमानमत्युचभावमाविभ्रती धारयन्ती ॥
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy