SearchBrowseAboutContactDonate
Page Preview
Page 901
Loading...
Download File
Download File
Page Text
________________ ८४० काव्यमाला। चन्द्रोद्यानं प्रतीच्या विविधसुमभरैर्भूषितं भूषणैः किं लक्ष्मीलीलाविलासं धनददिशि पुनः किं तदीयं निकुञ्जम् ॥१२२॥ यस्मिन् शत्रुजये सुरेन्दोरिन्द्रस्य दिशि पूर्वस्यां सूर्योद्यानं भाति । उत्प्रेक्ष्यते-स्व:सदां देवानां विपिनं काननं नन्दनवनमिव । पुनः अपाच्या दक्षिणस्यां दिशि खोद्यानं राजते । उत्प्रेक्ष्यते-गिरिकमलाया विमलाचललक्ष्म्याः नीलं मरकतच्छवि चेलं वस्त्रमिव । पुनः प्रतीच्या पश्चिमायां दिशि चन्द्रोद्यानं भ्राजते । किंभूतम् । विविधानि नानाप्रकाराणि रक्तपीतनीलकृष्णश्वेतादिवर्णानि सुमानि पुष्पाणि तेषां भरैः समूहैर्भूषितं शोभितम् । उत्प्रेक्ष्यते-किंभूतैः । भूषणैराभरणैरिवालंकृतम् । पुनर्धनददिशि उत्तरस्यां लक्ष्मीलीलाविलासं नाम वनं शोभते । उत्प्रेक्ष्यते तदीयमुत्तर दिक्पतेर्धनदस्य संबन्धि निकुञ्जमुद्यानं चैत्ररथं वनमिव । 'विमानं पुष्पकं चैत्ररथं वनं पुरी प्रभा' इति हैम्याम् । निकुञ्जशब्दः पुनपुंसकलिङ्गयोः । इदं वर्णनमप्रेऽपि प्रोच्यमानं शशुंजयमाहात्म्यादितो ज्ञेयम् । अधुना तु तेषामलक्ष्यत्वेनेति ॥ राकामृगाङ्का इव यत्र पद्माकरा रमां कांचन चिन्वते स्म । कुण्डान्यखण्डान्यपि नागगेहात्पीयूषकुण्डानि किमुद्धतानि ॥ १२३ ॥ यत्र शत्रुजये राकाणां यः सुपूर्णः षोडशकलाकलितश्चन्द्रो भवेत् । 'राका पूर्णे निशाकरे' इति हैम्याम् । पूर्णिमासीनां मृगाङ्काश्चन्द्रा इवामृतपूरिताः पद्माकरास्तटाकाः कांचन वचनविषयातीतां रमां लक्ष्मी चिन्वते पुष्णन्ति । पुनर्यत्र गिरौ अखण्डानि अ. भनानि अक्षतानि कुण्डानि हृदभेदा जलाशयविशेषाः शोभन्ते । उत्प्रेक्ष्यते-नागगेहात्पातालादुद्धृतानि गृहीत्वा आनीतानि किं पीयूषकुण्डानि अमृतकुण्डानीव । पाताले हि नव सुधाकुण्डानि सन्ति । यदुक्तं पञ्चमीस्तुतौ-यात्वा देवाधिदेवागमदशमसुधाकुण्डमानन्दहेतुः' इत्यागमरूपं दशमं सुधाकुण्डम्। तथा नैषधवृत्तौ-'क्षितिं फणामण्डले रक्षन्ति धारयन्तीति क्षितिरक्षिणो नागाः । यथा यत्कथाश्रवणात् पूर्व फणिप्रभृ. तयो नवसुधानां कुण्डानां रक्षिता कुण्डानि नामृतरोऽभूवंस्तथा रक्षयन्ति' इति ॥ कलितललितरङ्गत्तुङ्गतारङ्गसङ्गी मिलदलिकुलकेलीस्मेरदम्भोजपुञ्जः । श्रियमयति तटाकश्चिल्लणाख्योऽत्र नन्दी सर इव दनुजारिश्रेणिाभः सेव्यमानम् ॥ १२४ ॥ अत्र शत्रुजयशैले चिल्लण इति आख्या नाम यस्य तादृशः तटाकः श्रियं शोभाम: यति गच्छति । प्राप्नोतीत्यर्थः । किंभूतः । कलितं ललितं गमनागमनादिविलासो यैस्तादृशाः तथा रङ्गन्तश्चलन्तस्तुङ्गा उच्चस्तरा गगनावगाहिनस्तारङ्गाः कल्लोलसमूहाः । अत्र समूहार्थेऽणप्रत्ययः । तथा 'वारंवारं तारतरखरनिर्जितगगातारङ्गाम्' इति पद्मसुन्दरकृ.
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy