SearchBrowseAboutContactDonate
Page Preview
Page 900
Loading...
Download File
Download File
Page Text
________________ १६ सर्गः] हीरसौभाग्यम् । ८३९ जनान् भविकलोकान् पुनाना पवित्रीकुर्वाणा । किंवत् । निम्नगावत् । यथा खर्गिणां देवानां निम्नगा गङ्गा परशासनलोकप्रसिद्धया लोकान्पुनीते । उत्प्रेक्ष्यते-त्रैलोक्येऽपि विश्वत्रयेऽपि अदःसंनिभम् अस्य विमलादेः संनिभं तुल्यमन्यत्तीर्थ नास्ते लोकान् जगजनानिति वक्तुं वा विश्वकर्ता जगत्सष्टिकारकेण विधिना एषा प्रत्यक्षलक्ष्या शत्रुजया नदी किमु रेखा कृता विहितेव ॥ केवलज्ञानितीर्थेशतीर्थे पुरा नात्रनिर्मित्सयेशानजम्भद्विषा । . सिद्धसिन्धोर्मुदानायि यस्मिन्नसौ जहुनेव प्रवाहो नगेऽष्टापदे ॥ १२० ॥ पुरा पूर्व गतचतुर्विंशत्यास्तृतीयारकस्यादिसमये केवलज्ञानिनामा प्रथमतीर्थकरस्तस्य तीर्थे शासने वारके वा तस्मिन् जिते विद्यमाने वा यस्मिन् शत्रुजयनान्नि नगे गिरी प्रथमस्थापितप्रासादे स्नात्रनिर्मित्सया अर्थात्केवलज्ञानितीर्थकुन्मूर्तेरेव नात्रस्य कर्तुमिच्छया ईशाननाना द्वितीयपदे लोकनायकेन जम्भद्विषा इन्द्रेण सिद्धसिन्धोर्वेताळ्यशैलान्तवर्तिन्या गङ्गाया मध्यादसौ शत्रुजयाभिधाना सिन्धुरा नायता आनीता वा इत्येषा कथा शत्रुजयमाहात्म्येऽस्तीति । केनेव । ज(नेव । यथा सगरचक्रिणः षष्टिसहस्रसुतेषु ज्येष्ठेन नन्दनेन अष्टापदाभिधाने नगे भूधरे अर्थात्काञ्चनप्रासादमणिमयप्रतिमारक्षाकृते । दण्डरत्नकारितसहस्रयोजनोद्वेधकैलाशशैलपरितः खातिकाखातपूरणार्थमित्यर्थः । सिंद्धसिन्धोः संनिधिवर्तिमन्दाकिन्या एव प्रवाहो दण्डरत्नेनैव पानीयोऽथ आनायि इत्येषामपि कथा शत्रुजयमाहात्म्ये एवास्ते ॥ रसकूपीदिव्यौषधीसुवर्णमणिरत्नभूमिरेष गिरिः । शिव इव सकलाः सिद्धीः पुनर्दधानः श्रियं श्रयते ॥ १२१ ॥ . एष शत्रुजयाख्यो गिरिः पर्वतः श्रियमद्वैतवैभवत्वेन शोभा श्रयते धत्ते । किंभूतः । रसंकूपीनां लोहताम्रादीनां हेमविधायकै रसैः परिपूर्णानां लघुकूपानां तथा दिव्यानां देवाधिष्ठातृत्वेन महाप्रभावाणामौषधीनां सुवर्णरजतकारकाष्ठमहाभयस्तम्भकरोगविनाशकनिधिद्रव्यादिदर्शकाखिलकामितकारकादीनां विविधजटिकानां सुवर्णानामुपलक्षणाद्रूप्यत्रपुसीसकताम्रलोहादीनां मणीनां चन्द्रकान्तादीनां रत्नानां कर्केतनप्रमुखाणां भूमिरात्ख दिखनीनामुत्पत्तिस्थानम् । पुनः किं कुर्वाणः । सकलाः सर्वजातीयाः सिद्धीर्दधानो धारयन् धत्ते । धारणं तु युक्तमेव । यतः खस्मिन् खस्य वा यद्भवति तत्परस्मै दीयते परं खस्मिन्नेव यन्न भवति तत्परस्मै कुतो दीयते । असौ तु एकतानो भवन्मानसानिशखाराधकानामैहिकामुष्मिकाः सर्वाः सिद्धीः प्रदत्ते । क इव धत्ते । शिव इव । यथा ईश्वरोऽखिला लघिमा-वशिता-ईशिता-प्राकाम्यं महिमा-अणिमा-यत्रकामावसायसाथित्वं-प्राप्तिः इत्यष्टसिद्धीर्दधाति ॥ सूर्योद्यानं सुरेन्दोर्दिशि विपिनमिव स्वःसदां भाति यस्मि न्खर्गोद्यानं त्वपाच्यां दिशि गिरिकमलानीलचेलं किमेतत् ।
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy